SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ सरः क्षणभङ्गवादे संतानेक्यव्यवस्थानुपपत्तिः 381 तत्वमुक्ताकलाप: निजफलनियतिर्वासनानां च न स्यात् कासे रक्ततादि कमविपरिणमत्संस्कृतद्रव्यतस्स्यात॥२९ सर्वार्थसिद्धिः स्यादिति । यदप्याहुः यस्स्मिन्नेव हि सन्ताने आहिता कर्मवासना । फलं तत्रैव बध्नाति कार्पासे रक्तता यथा ॥ इति; कर्मवासनेत्यनुभववासनाया उपलक्षणं । तदपि दूषयतिनिजफलनियतिर्वासनानां च न स्यादिति । सन्तानक्ये सिद्धे हि यस्मिन् तस्मिन्निति निर्देशस्स्यादिति भावः । दृष्टान्तस्तर्हि कथमित्यत्राह-कार्पास इति । रञ्जकद्रव्यविशेषसंस्कृतबीजावयवानुवृत्त्या कार्यस्रोतोविशेषनियमे यथादर्शनं तत्र आनन्ददायिनी सर्वदेशक्षणसन्तानजनकत्वात् सर्वे सर्व(स्यापि)स्य सन्ताना इति पूर्वव(वैत)देतद्देशसन्तांनैक्यनियमो नास्तीति भावः । ननु क्षणिकत्वपक्षे पाकेषुविक्षेपादौ वासनाश्रयस्य नाशादुत्तरो(नाशात्तदु)त्तरक्षणेषु विक्लत्तिदेशान्तरगमनहतुक्रिया न स्यादित्याशङ्कय सन्तानैक्यान्न दोष इति सिद्धान्तदीपिकोक्तमनुवदति-यदप्याहुरिति । कर्मवासना-वेगादिसंस्कारः । यदा पाकादिक्रियाशक्तिः तत्रैव तण्डुलादिसन्ताने विक्लत्त्यादिक्रियां जनयतीत्यर्थः । रञ्जकद्रव्येति-स्थिरवादे कार्पाससन्तानव्यवस्थासम्भवायुज्यते ; क्षणिकवादे तन्नियमो न स्यादिति दृष्टान्तासिद्धिश्चेति . भावः ॥ २९ ॥
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy