________________
382
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः मेयत्वायैर्विगीतं क्षणिकमिह
सर्वार्थसिद्धिः तादृशफलसिद्धिर्युक्ता; त्वन्मते तु त(देत) * सन्ततिव्यवस्थापकाभावात् तत्रैव फलं बनातीति दुश्शको नियम इति भावः ॥२९
*क्षणभङ्गसाधनान्तरं दूषयितुमनुवक्ति-मेयत्वाद्यैरिति। इह पक्षदृष्टान्तविकल्पाहे वस्तुजाते। विगीतं क्षणिकं * मेयत्वात
आनन्ददायिनी ननु क्षणिकत्वानुमानं पूर्व दूषित(मिति)मेव पुनस्तद्दषणे पौनरुक्तयमित्याशङ्कयावतारयति-क्षणभङ्गेति । इहेत्यस्य जगत्परत्वेऽनन्वयमाशय तस्या (इहशब्दा)र्थमाह--पक्षदृष्टान्तति-विगीतं-क्षणिकत्वेन विप्रति
भावप्रकाशः तम्। '* सन्ततिव्यवस्थापकाभावादिति । क्षणिकत्वपक्षे कार्यक्षणपूर्वक्षणानां सर्वेषामन्वयव्यतिरेकयोरविशेषेण सिद्धान्तिवदुपादानोपादेययोरभेदानङ्गीकारेण स्वोपादानबलव्यवस्थानिर्णयासंभवेन
स्वोपादानबलोद्भूताः कलापोत्पादकाः पृथक् । इति शान्तरक्षितोक्तिरनुचिता । एतेन
सहकारिकृतश्चैवं यदा नातिशयः क्वचित् । सर्वदा निर्विशेषैव तदा सन्ततिरिष्यते ॥
४३२ इति भदन्तयोगसेनोक्तदूषणमपरिहार्यम् । सन्ततिदूषणविस्तरस्तु श्लोकवार्तिकादौ बोध्य इति भावः । क्षणिकत्वसाधने सत्त्वहेतोरेकस्य ज्ञानश्रियाऽभिधानेऽपि तदविशेषेणान्यस्यापि हेतोस्तन्मते क्षणिकत्वसाधकत्वं संभवतीति स्वस्य बौद्धमतप्रावीण्यं दर्शयन्नवतारयति *क्षणभङ्गसाधनान्तरमित्यादिना * मेयत्वादिति–मेयत्वमविसंवादिज्ञानाविषयत्वं ।