________________
380
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
तत्वमुक्ताकलापः
क्षणानाम् । सन्तानैक्यव्यवस्था
[जडद्रव्य
सर्वार्थसिद्धिः
1
'* अतीन्द्रियस्य (तु) तस्यादर्शनात् । दृश्यस्य तु वह्निधूमत्वादेरतिप्रसङ्गित्वात् । न द्वितीयः ; यस्मिन् देशादौ यद्वर्तते तस्मिन् जायमानस्य तत्कारणमिति नियमो न सम्भवति : कार्यक्षणस्य कारणदेशादिवर्तित्वे कारणदेशादेः क्षणद्वयापत्तेः । तथाचानन्तरक्षणयोगेऽपि को बाधः १ अतः स्थिरदेशादिकमनभ्युपगच्छतः तत्प्रयुक्तनियमायोगात् अतिप्रसङ्गस्तदवस्थ एव । ननु यदेशादिक्षणवर्ती कारणक्षणः तत्कार्यदेशादिक्षणे स्वकार्यमारभत इति नियम इति चेन्न ; देशादिक्षणद्वयेऽपि कार्यकारणव्यवस्थाया दुःस्थत्वात् । त(देत ) दभिप्रेत्याह -- सन्तानैक्यव्यवस्था न आनन्ददायिनी
एव पूर्वापरकालवर्तित्व (त्वादि) रूपः । तस्येति - विशेषस्य कार्यकारणयोरदर्शनादित्यर्थः । अतिप्रसङ्गित्वादिति - तेन रूपेण पूर्वक्षणापेक्षया पूर्वापरभावित्वादित्यर्थः । तदिति - तद्देशे तत्पूर्ववर्तीत्यर्थः । क्षणद्वयापत्तेःकार्यकारणद्वयाधिकरण क्षणद्वयका लवर्तित्वापत्तेरित्यर्थः । तथाचेति
एतावन्तं स्थितं कालं कः पश्चान्नाशयिष्यति ।
इति न्यायादिति भावः । ननु कार्यकारणयोरेकदेशवर्तित्वं मास्तु ; अपि तु एकदेशसन्तानवर्तित्वं ; तथा च नातिप्रसङ्ग इति शङ्कते - नन्विति । देशादीति – तथाच पूर्वदेशलक्षणस्य (स्व) पश्चाद्भावि
भावप्रकाशः
* अतीन्द्रियस्य त्विति एतेन शक्तयभिधानमप्यकिञ्चित्करमिति व्यञ्जि