SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ रसः परमते कार्यत्वनियामकविकल्पः दूषणं च 519 सर्वार्थसिद्धिः आदिशब्देन दिक्संग्रहः । *अयमर्थः-सर्व क्षणिकमिति वदतस्ते कस्यचित् किञ्चित्प्रति कार्यत्वं किमनन्तरकालभावित्वमात्रात् उत तद्विशेषात् ? आये त्रैलोक्योदरवर्तिनः पूर्वक्षणास्सर्वे तदनन्तरभाविनां सर्वेषां क्षणानां कारणानि स्युः। द्वितीयेऽप्यसौ विशेषः किं देशाद्युपाधिनिरपेक्षः तत्सापेक्षो वा? नाद्यः; आनन्ददायिनी क्षणिकत्वपक्षेऽपि वीचीतरङ्गन्यायेन शब्दसंतानानामिव व्यवस्थापककार्यकारणभावस्स्यात् इत्यत आह-अयमर्थ इति । देशाधुपाधिनिरपेक्षः---तदघटितः कारणकार्यधर्म इत्यर्थः । तत्सापेक्षः -- एकदेश भावप्रकाशः यथा हि नियता शक्तिः बीजादेरङ्कुरादिषु । अन्वय्यात्मवियोगेऽपि तथैवाध्यात्मिके स्थितिः ॥ पारम्पर्येण साक्षाद्वा क्वचित्किञ्चिद्धि शक्तिमत् । ततः कर्मफलादीनां संबन्ध उपपद्यते ।। ५०३ नियमादात्महेतूत्थात् प्रथमक्षणभाविनः । यद्यतोऽनन्तरं जात द्वितीयक्षणसन्निधिः । ५१८ तत्तजनयतीत्याहुरव्यापारेऽपि वस्तुनि । विवक्षामात्रसंभूतसंकेतानुविधायिनः ॥ ५१९ अन्यानन्तरभावेऽपि किञ्चिदेव च कारणम् । तथैव नियमादिष्टं तुल्यं चैतत् स्थिरेष्वपि ॥ ५३१ इति । तद्पयन् मूलाथमाह-'* अयमर्थ इत्यादिना ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy