________________
सरः]
द्वितीयकल्पदूषणम्
सर्वार्थसिद्धिः '* ध्वंसस्य च तुच्छत्वे तत्कालेऽपि स्वकाल इव भावानां सत्त्वप्रसङ्गाच्च । तथाच क्षणभङ्गं प्रतिज्ञाय स्थिरवादं साधयसि ।
आनन्ददायिनी भावानां सत्त्वं न स्यादिति ; तथाच माध्यमिकमतापात इति भावः ।।
भावप्रकाशः विज्ञप्तिमात्रतासिद्धिर्धीमद्भिविमलीकृता ।। इत्याधुक्तिरसङ्गतेति भावः । 1 * ध्वंसम्य च तुच्छत्वे इति
प्रध्वंसो भवतीत्येव न भावो भवतत्यियम् । अर्थः प्रत्याय्यते त्वत्र न विधिः कस्यचिन्मतः ॥ २८९ ध्वंसनाम्नः पदार्थस्य विधाने पुनरस्य न ।
वस्तुनो जायते किंञ्चिदित्येतत्कि निवर्तते ? ॥ ३८१ इत्युक्तिरप्यनुचिता । भवताऽपि वस्तुरूपनाशाङ्गीकारेण तत्र विधिरूपताया अत्र तद्वैलक्षण्यस्य च नियामकाभावात् । ध्वंसनाम्नः पदार्थस्य विधाने वस्तुनो ध्वंसस्य च परमार्थत्वेन उभयोस्संबन्धस्संभवति । एकस्य वस्तुता अन्यस्य चावस्तुत्वं यद्नि तदा वस्त्ववस्तुनोस्संबन्धो न संभवति । एतेन
भावध्वंसात्मनोश्चैवं नाशस्यासत्त्वमिष्यते । ।
वस्तुरूपनियोगेन न भावाभावरूपतः ॥ इत्येतद्विवरणपञ्चिकायां 'यदि हि स्वभावनिषेधलक्षणो विनाशः तेषामसन् स्यात् तदा नित्यत्वमेषां स्यात् यावता स्वभावनिषेधलक्षणो नाशस्स्वयमसद्रूपोऽस्त्येवेति कथं नित्या भवेयुः ? ' इत्युक्तिरप्यपास्ता सदसतोस्संबन्धानुपपत्तिर्बुद्धिसरे विवेचयिष्यते इति भावः ॥
३८२