SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ 374 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः म्भकाः न तु नाशजनकाः इति चेन्न; दीपादिसन्ताना(नाम)न्तिमध्वंसकेषु तदसिद्धेः । न हि तत्र विभक्तसूक्ष्मावस्थान्तरापत्तिमिच्छसि! अन्वयव्यतिरेकाविशेषे व्यवस्थापकाभावात् । निस्स्वभावतया तुच्छस्य हेत्वपेक्षाविरहो व्यवस्थापक इति चेन्न ; प्रतियोगिवदेव नियतकालतया प्रमितस्यात्यन्ततुच्छत्वायोगात् । खपुष्पवञ्चानादित्वप्रसङ्गेन 1 * सर्वभावासिद्धिप्रसङ्गात् । आनन्ददायिनी विभक्तावयवः । तथाच मुद्गरा(दण्डा)द्यन्वयव्यतिरेकयोरन्यार्थत्वात् ध्वंसस्य न तज्जन्यत्वमिति भावः । दीपेति-तत्रा(न्यथासिद्धेः)न्यार्थत्वस्य वक्तुमशक्यतया ध्वंसस्य तज्जन्यत्वासंभवादित्यर्थः । तत्राप्यन्यथासिद्धिमाशङ्कय परिहरति-नहीति । तत्र प्रमाणाभावादिति भावः । अन्वयव्यतिरेकाविशेषेऽपि व्यवस्थापकं शङ्कते-निस्स्वभावतयेति । तत्र किं स्व(य)मेव भावः स्वभाव इति स्वरूपं विवक्षितं ? आहोस्वित् स्वस्य भावः स्वभाव इति धर्मो वा? इति विकल्पमभिप्रेत्य आद्य दूषयति-प्रतियोगिवदिति । अत्यन्ततुच्छत्वायोगादिति-शशशृङ्ग(ङ्गादि)वत् निस्स्वरूप (निस्स्वरस) त्वासंभवादित्यर्थः । खपुष्पवदिति --- ध्वंसप्रतियोगिनोर्विरोधादुत्तरकालमिव पूर्वमपि भावप्रकाशः पदार्थव्यतिरिक्ते तु नाशनाम्नि कृते सति । भावे हेत्वन्तरैस्तस्य न किञ्चिदुपजायते ॥ ३६० इत्येतत्पक्षपारिष्करणेन सिद्धान्तदूषणं न संभवतीति बोध्यम् ।। 1* सर्वभावासिद्धीति-ध्वंसस्याहेतुकत्वासत्त्वनिस्स्वभावत्वाङ्गीकारे माध्यमिकावृत्तिबोधिचर्यावतारपञ्चिकोक्कदिशा सर्वेषामपि निस्स्वभावत्वप्रसङ्गेन
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy