SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ 376 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः कीदृशं च ध्वंसस्य निस्वभावत्वं ? यदि यत्किञ्चित्स्वभावविरहः; तत्वलक्षणेऽपि समानं । सर्वस्वभावविरहस्तु ध्वंसेऽप्यसिद्धः। अन्यथा कथमस्य पक्षीकारः? ध्वंसरूपतया सिद्धस्येति चेत् ; तर्हि तत्स्वभावस्य कथं सर्वस्वभावविरहः ? अपि च अस्य प्रागसत्त्वे हेत्वपेक्षा दुारा । प्राक्सत्वे तु भावापह्नवः । तत एवाभावस्याप्यभाव इति सर्वाभावस्स्यात् । तृतीये च स एव क्षणो यस्य स तत्क्षणः तस्य भावस्तत्क्षणत्वं । तदा ध्रुवभावि-सहभावीत्यर्थः । अयमपि हेतुरसिद्ध एव । न (हि) च प्रध्वंसप्रतियोगिनोर्योगपद्यसम्भवः; सम्भवे (च) वा भावः पश्चादपि किं न स्यात् ? अनुक्षणशब्दोपचरितस्तु हेतुरनन्तरक्षणवर्तित्वं । तत्रापि भावोत्पत्त्यपेक्षयाऽनन्तर्यविवक्षायामसिद्धिः। आनन्ददायिनी ननु तुच्छत्वान्न प्रतियोगिविरोध इत्यत आह—-ध्वंसस्य चेति। द्वितीये दूषणमाह-कीदृशं चेति । तीति-तद्धंसत्वस्यैव स्वभावत्वादित्यर्थः । अस्येति-ध्वंसस्येत्यर्थः । भावापह्नव इति-ध्वंसकाले प्रतियोगिनोऽसंभवादिति भावः । तत एवेति—यत एवं प्रतियोगिनोऽभावः ततः प्रतियोग्यप्रसिद्धया भावोऽपि न स्यादिति माध्यमिकमतप्रसङ्ग इति भावः । न (ही) चेति-विरोधादिति भावः । संभवे(वे) चेति-विरोधाभावादिति भावः । उपचारतस्त्वितिअनुशब्दस्य ‘प्रादयो गताद्यर्थे ' इति अनुयातः क्षण इति समासे कालवाचि(त्वात् त्वेन बहुव्रीहिसमासे चान्यपदार्थलक्ष(णकतया) कत्वात् तत्स्थवाचि (त्वमुपचारेणेत्यर्थः) त्वाभावात् तेनोपचरितो लक्षित इति भावः ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy