________________
सर:]
हेत्वन्तरेण क्षणभङ्गसाधनम्
371
भावप्रकाशः एव विनाशः; अथापि ‘भाव एव चलो विनश्यतीति कृत्वा विनाश इत्याख्यायते' इति भवदुक्तया यो विनश्यति तद्भावरूप एव विनाश इति प्रतीयते । एवं 'जन्मतो नान्यथा स्थितिः' इत्युक्तया जन्मकाल एव विनाशसत्ताकाल इति च । इत्थं च उत्पत्तिक्षण एव विनाशप्रतीतिरिति महदिदं चित्रं । एवं धर्मधर्मिणोर्मेदमभ्युपगच्छतः परस्योपरि
तथा हि नाशको हेतुर्न भावाव्यतिरेकिणः ।
नाशस्य कारको युक्तः स्वहेतोर्भावजन्मतः ।। ३५८ इति भवदारोपितदोषः परावृत्य भवन्तमेवाश्रयति । पूर्वपूर्वक्षणनाशस्य उत्तरोत्तरक्षणरूपत्वाङ्गीकारे च सान्वयविनाशाङ्गीकारप्रसङ्गः । स्वभावप्रच्युतिदशायामपि श्रीभाष्यादिसिद्धान्तितस्य निरन्वयविनाशासंभवस्य अनुपदमेव व्यवस्थापयिष्यमाणतया विनाशप्रतीत्यो।लक्षण्ये विनिगमकविरहेण एकजातीयेनैव विनाशेन निर्वाहे एको वस्तुरूपः अन्यश्शश. विषाणवदसन्निति विनाशद्वैविध्यकल्पनं स्वेच्छामात्रनिबन्धनमेव । चलनदशायामपि पूर्वोत्तरक्षणयोस्तादाम्यानभ्युपगमेन पूर्वक्षणस्य निरन्वयविनाशसंभवेन भवत्पक्षणोभयोरसत्त्वसंभवात् स्वभावप्रच्युतिदशायां सिद्धान्तानुसारेण वस्तुनस्संभवेन उभयोर्वस्तुत्वसंभवाच्च । अतः एकस्य वस्तुभूतस्य विनाशस्य अपरस्यावस्तुभूतस्य ध्वंसस्याङ्गीकरणमनुचितमिति । एतेन
संतानोच्छेदरूपस्तु विनाशो यो न हेतुमान् । तस्यान्तेऽपि न भावोऽस्ति तथा जन्म तु वार्यते ॥ ४३९ विलक्षणकपालादेरुत्पादस्तु सहेतुकः ।
सोऽप्यादौ जायते नैव तदा हेतोरसम्भवात् ।। ४४० इत्युक्तिरप्यनुचितेति ।
24*