SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ 370 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य भावप्रकाशः वस्त्वनन्तरभावित्वं न तत्र त्वस्ति तादृशि । चलभावस्वरूपस्य भावेनैव सहोदयात् ॥ ३७६ अतो विनाशसद्भावान्न नित्यास्सर्वसंस्कृताः । न विनाशीति बुद्धिश्च निनिमित्ता प्रसज्यते ॥ ३७७ भावध्वंसात्मनश्चैवं नाशस्यासत्त्वमिष्यते । वस्तुरूपवियोगेन न भावाभावरूपतः ।। ३८२ निवृत्तिरूपताऽप्यस्मिन् विधिना नाभिधीयते । वस्तुरूपानुवृत्तिश्च क्षणादूर्ध्व निषिध्यते ।। ३८२ अतो व्यवस्थितं रूपं विहितं नास्य किञ्चन । इति नित्यविकल्पोऽस्मिन् क्रियमाणो निरास्पदः ॥ ३८४ इति परिहार उक्तः । अत्र पञ्चिका-द्विविधो हि विनाशो विधेः प्रतिषेधलक्षणः ; तथा हि-क्षणस्थितिधर्मा भाव एव चलो विनश्यतीति कृत्वा विनाश इत्याख्यायते । यद्वा-~-भावस्वभावप्रच्युतिलक्षणप्रध्वंसापरनामा विनशनं विनाश इति । अत्र विचार्यते--पूर्वदेशसंबन्धवियोगपूर्वकदेशान्तरप्राप्तिदशायामेव चलनं सर्वसंप्रतिपन्नं । तदात्वे विनाशप्रतीतिर्न संप्रतिपन्ना; किंतु चलनप्रतीतिरेव । चलनं च न वस्तुनो विनाशः । वस्तुस्वभावप्रच्युतिदशायामेव विनाशप्रतीतिः । सा च चलनमादाय न विश्राम्यति । अत एव प्रथमे कारणं जातमविनष्टं तदाच तत् । क्षणिकत्वात्तु तत्कार्य क्षणकाले न वर्तते ॥ ५०९ तस्मादनष्टात्तद्धेतोः प्रथमक्षणभाविनः । कार्यमुत्पद्यते शक्तौ द्वितीयक्षण एव तु ॥ ५१२ इति भवदुक्तिसंगतिः । अस्तु धर्मधर्मिणोरभेदवादिनां भवतां चलनकाल
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy