________________
372
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः जन्मन्येवोपरोधात क्षणिकमिह जगत्सर्वमित्यप्यसारम्। लिङ्गं ह्येष्यत्त्वमात्रं जननविधुरता तत्क्षणानुक्षणत्वे तत्त्वं तज्जन्यता वा तदिदमनियमासिद्धिबाधादिदूष्यम् ॥ २८ ॥
सर्वार्थसिद्धिः
असारं–न्याय्यादन्यदित्यर्थः । तत्र हेतुं विकल्पयति-लिङ्गमिति । एवं विकल्पिते यथासम्भवं दोषानाह - तदिदमिति । तथाहितत्र तावत् यत् यस्य ध्रुवं भविष्यति न तत्तस्य हेतुसापेक्षं नाशश्च जातानां ध्रुवभावीत्युक्तं स्यात् । तदा कस्यचिदङ्कुरस्य
आनन्ददायिनी
मूलस्यायमर्थः-उत्पन्नानां भावानां विनाशस्य ध्रुवभवितृतया हेत्वपेक्षारहितत्वात् जन्मन्येवोपरोधात्सम्बन्धात् सर्वं जगत् क्षणिकमिति । तत्र किं ध्रुवभवितृत्वम् ? इति विकल्पयती (विकल्पपरत्वमभिप्रे) त्याहतत्रेति । एष्यत्त्वमवश्यम्भावित्वमात्रं । जननविधुरता - उत्पत्त्यभावः । तत्क्षणत्वं भावकालत्वं । अनन्तरक्षणवर्तित्वमनुक्षणत्वं । तत्त्वं—प्रतियोगिस्वरूपत्वं । तज्जन्यत्वं - - प्रतियोगिजन्यत्वं । ध्रुवभवितृ (ध्रुवभावित्व) शब्देन एतेषां लाभो यथा संभवति तथोत्तरत्र स्वयमेव दर्शयिष्यति । तेषां समुच्चित्य प्रत्येकम (प्रत्येकं प्राप्तय) भावादाहयथासंभवमिति । तत्र क्रमेण दूषणानि वक्तुं प्रतिजानीते - तथाहीति । अनियमो --- व्याप्तयभावः । असिद्धिः हेत्वसिद्धिः । बाधः - साध्याभावनिश्चयः । कस्यचिदिति — व्यभिचारेण व्याप्तयभावादित्यर्थः ।
----