SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ सरः] परोक्तबाधकपरिहारः, प्रत्यक्षेण प्रत्यभिज्ञायाबाधितविषयकत्वशङ्का च 359 तत्वमुक्ताकलापः विरोधौ ॥ २६॥ प्रत्यक्षं वर्तमानं प्रथयति यदिहावर्तमानाद्विभक्तं तस्मात्तेनैव सवै क्षणिकं; सर्वार्थसिद्धिः अथ प्रत्यक्षेणैव प्रत्यभिज्ञाप्रत्यक्ष(स्य)विरोधं भावानां क्षणिकत्वसिद्धिं च शङ्कत–प्रत्यक्षमिति । अस्मदादिप्रत्यक्षं तावद्वर्तमानमात्रविषयमिति सर्वसंमतं । अन्यथा दृश्यमानानां , पदार्थानां तत्क्षणापेक्षया पूर्वापरविशेषाणामपि प्रत्यक्षत्वप्रसङ्गात् । तस्मात् अगृहीतपूर्वापरविशेषं वर्तमानग्राहि प्रत्यक्षमवर्तमानाघ्यावृत्तमेव स्वविषयं गृह्णाति । एतदेव च क्षणिकत्वं वस्तूंनां यदपूर्वोत्तरत्वं । अतस्संस्कारनिरपेक्षप्रत्यक्षबाधिता प्रत्यभिज्ञा देशान्तरस्थग्राहिशुक्तिरूप्यधीवत् संस्कारोपनीतका आनन्ददायिनी पूर्वसंगतिमभिप्रेत्याह- अथेति । प्रत्यभिज्ञाप्रत्यक्षविरोधंप्रत्यभिज्ञा(या)बाधमित्यर्थः । पूर्वापरेति--तत्क्षणापेक्षया पूर्वापरकालिकरूपादि(कत्वादिरूप)विशेषाणामित्यर्थः । अवर्तमानाट्यावृत्तं वर्तमानाभिन्नं । एतदेव चेति-एतत्क्षणकालवर्तिनः पूर्वापरक्षणवर्तिभिन्नत्वे तत्क्षणमात्रावृत्तित्वमि(त्तित्ववे)त्यर्थः । अपूर्वोत्तरत्वं-पूर्वोत्तरकालावर्तित्वं तत्क्षणमात्रवृत्तित्वमिति यावत् । संस्कारनिरपेक्षेति-संस्कारसापेक्षप्रत्यभिज्ञातो बलवदिदन्त्वमात्रग्राहि प्रत्यक्षमित्यर्थः । ननु भिन्नत्वे पूर्वापरयोः कथं वर्तमानाद्भेदधीरित्यत्राह-देशान्तरस्थेति । यथ देशान्तरस्थस्मृत्युपनीतरूपतङ्के (रजतमे) दसंवृत्या शुक्तौ तदैक्यधीः
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy