________________
358
सव्याख्य सर्वार्थसिद्धिप्ताहततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः काले कालानपेक्षे कथमपि सुवचौ नानवस्थासर्वार्थसिद्धिः
विरोधानवस्थयोश्शङ्कापि नास्तीत्याह - काले इति । न ह्ययमपि काल एतस्मिन् काले किमुत कालान्तरं ! तत्कालोऽपि न तस्मिन् काले किमुतायं ? अत एतत्कालतत्कालौ वा कालान्तरं वा अनपेक्ष्य एकस्मिन् वस्तुनि कालद्वयं संबध्यते इति स्थिते कथञ्चिदप्यनवस्थाविरोधयोर्नावकाशः । तथाऽपि कालद्वयं परस्पराभावनान्तरीयकं तदात्मकं वा कथमेकत्र स्यादिति चेन्न; कालद्वयस्यान्योन्यस्मिन्नभावेऽपि तदुभयसंवन्धिनि वस्तुन्यभावाभावात् । यस्तु तस्मिन् वस्तुन्यसंबद्धः कालः तस्य तत्र सद्भावं न ब्रूमः । न हि वयं नित्यानित्यविभागं निराकुर्मः ! ॥ २६ ॥
.
आनन्ददायिनी
साधनामित्यर्थः । एतस्मिन्निति । न वर्तत इति शेषः । किमुतेति — अयमेव काल एतस्मिन् न वर्तते चेत् भूतकालादौ तद्वृत्तिताशङ्का दूरे इत्यर्थः । परस्पराभावनान्तरीयकमिति परस्पराभावव्याप्तमित्यर्थः । कालद्वयस्येति—परस्पराभावनान्तरीयकत्वे परस्पराभावरूपत्वेऽपि वा कालिकविरोधितया नैकास्मिन् काले तद्वयं सम्बध्नाति । एकस्मिन् वस्तुनि सम्बन्धे न विरोध इत्यर्थः । नन्वेवं सति सर्वकालानां वस्तुसम्बन्धे विरोधाभावात् सर्वं वस्तु सर्वकालसम्बन्धीति सर्वं नित्यं स्यात् । तथा च नित्यानित्यविभागो न स्यादित्यत्राह — यस्त्विति न हि वयं तत्रासम्बद्धकालसम्बन्धमपि ब्रूमः ! येन नित्यानित्यविभाग निराकुर्म इत्यर्थः ॥ २६ ॥
1