________________
सरः] तत्त्वेदन्त्वयोर्विरोधषारहारः अन्यथा अनिष्टा पत्तिः परहेत्वीसद्धिनिगमनंच 357
तत्वमुक्ताकलापः
स्वेन चात्रैककाल्यात्
सर्वार्थसिद्धिः
तत एव कालद्वयमप्येकस्य विरुद्धमिति तत्राह-स्वेनेति । पूर्वापरकालयोगो हि विरुद्धः । स्वेनोपाधिनावच्छिन्नस्यैकस्य कालस्यावान्तरोपाधिभिर्नानात्वेऽपि तत्तदुपाधीनामेव तत्तदवान्तरकालद्वयान्वयविरोधः । अन्यापेक्षया पूर्वापरकालयोरन्यस्य विरुद्धत्वे क्षणकालस्याप्यन्यापेक्षया पौर्वापर्यात्तत्कालवर्तित्वमपि वस्तुनो विरुध्येत । क्षणकालसंबन्धो वस्तुनः काल्पनिक इति चेत् । ततोऽपि माध्यमिकोत्थानम् । ननु स्वरूपसत्यता क्षणसंबन्धित्वं च साध्यते न केवलं क्षणकालमात्रसंबन्धित्वं । अतस्तुर्यबौद्धात्तयाणां विशेष इति; तर्हि सिद्धसाधनं । अतः क्षणिकपक्षे स्थिरपक्षे वा स्वाभावकाले वृत्तिविरोधाद्वारणीया न तु स्वकालवृत्तिरिति भावः । अत्र च
आनन्ददायिनी तत एवेति-तत्तेदन्तयोर्विरोधात्तद्धटकीभूतकालद्वयमप्येकस्य विरुद्धमित्यथः। क्षणकालस्येति-अविशेषादिति भावः। ततोऽपीति-क्षणकालसम्बन्धाभावे कालासम्बन्धिनो वस्तुनः कदाऽप्यभावाच्च शशशृङ्गवदिति भावः । स्वरूपसत्यतेति-स्वरूपसत्यत्वसाधनात्तत्क्षणसम्बन्धस्य काल्पनिकत्वेऽपि तुर्याद्भेद इति भावः । स्वरूपसत्यत्वस्य सिद्धत्वात् क्षणमात्रसम्बन्धस्य (काल्पनिकत्वे वस्तुतः) मिथ्यात्वाच्च क्षणिकत्वाभा (वात्) वेन सिद्ध