________________
360
सव्याख्यसर्वार्थसिद्धिसहिततत्व मुक्ताकलापे
[ जडद्रव्य
तत्वमुक्ताकलापः इति न सत्तावदित्यप्रतीतेः । तत्कालासत्त्वमेव ह्यपनयति सतो वर्तमानत्वबोधः कालेऽन्यत्रापि सत्त्वं प्रमितमिति कथं तद्विरोधप्रसङ्गः ? ॥। २७ ॥ सर्वार्थसिद्धिः
लान्तरस्थभेदसंवृत्या तस्मिन्निदन्त्वं अस्मिन् वा तत्त्वमारोप्य कल्पितैक्यविषयेति । अत्र प्रत्यक्षवृत्तान्तानभिज्ञेोक्तिरियमित्यभिप्रायेण वक्ति न सदिति । प्रत्यक्षस्य कालान्तरसम्बन्धप्रतिक्षेपकत्वाभावमाह — तावदिति । वर्तमानत्वविधिरेवावर्तमानत्वनिषेधात्मा तावन्मात्र कालवर्तित्वं नियच्छेदित्यत्राह — तत्कालेति । तत्कालसत्त्वविधिर्हि तदानीमसत्तां निरुन्ध्यात् न तु कालान्तरसत्तामित्यर्थः । तथाऽपीदङ्कारवता प्रत्यक्षेण कालान्तरसत्त्वस्यानालम्बनात् तत्प्रतिक्षेप इति चेत्; तत्राह — कालेऽन्यत्रापीति । आनन्ददायिनी
तथेदंवस्तुनि तस्मिन् वा स्मृत्युपनीते भेदज्ञानप्रतिबन्धकदोषेणाभेदधीरित्यर्थः । प्रत्यक्षवृत्तान्तानभिज्ञतां दर्शयतीत्याह – प्रत्यक्षेति । अवर्तमानत्वनिषेधात्मा --- कालान्तरसत्त्वनिषेधात्मा । तत्कालेति - वर्तमानकालसंबन्धो न कालान्तरसंबन्धाभाव इति भावः । तथा च सोऽपि तत्काले' असंबन्धं निरुन्ध्यात् न तु तस्य कालान्तरसंबन्धमन्यकाले निरुन्ध्यादित्यर्थः । तथाऽपीति - साधकाभावादिति भावः । ननु प्रत्यभिज्ञायाः प्रामाण्यसंदेहात् अन्यस्य च साधकस्याभावात् कथं प्रमितत्वामित्यत्राह-अयं भाव इति । इदमिति वर्तमानत्वात्प्रत्यक्षत्वबाधात् प्रत्यभिज्ञाया अप्रामाण्यं वाच्यं । तत्रेदमिति प्रत्यक्षस्य