________________
354
सव्याख्यसर्वार्थसिद्धिसाहेततत्वमुक्ताकलापे
[जडेंद्रव्य
सर्वार्थसिद्धिः 19 एकस्य भिन्नकालाभ्यां वैशिष्ट्यं विहतं यदि । तथा स्यात् भिन्नदेशाभ्यां पुजबुद्धिस्ततो न ते ।
आनन्ददायिनी तथा स्यादिति-नन्वस्माभिर्देशद्वयसम्बन्धानङ्गीकारान्न प्रतिबन्दिरित्युक्तमिति चेत् ; किं तदा देशानभ्युपगमात् ? तत्सत्वेऽपि तत्सम्बन्धा
भावप्रकाशः भ्रमसंशयौ नैव निवर्तेते । अतस्तन्निवृत्तये तदेतत्कालसंवन्धावगाहिनी प्रत्यभिज्ञा प्रमितिरित्यङ्गीकरणीयम् । क्षणिकत्वानुमितिः प्रत्यक्षगृहीतधर्म्यवगाहिन्यपि प्रवृत्तसमारोपव्यवच्छेदकतया यथा पञ्चिकायां प्रमेत्यङ्गीकृतं तद्वत् स्मृतेऽस्तु पूर्वप्रत्यक्षानिवर्त्यभ्रमसंशयानिवर्तकतया न प्रमात्वापादनसभंव इति ॥
हेतुरसिद्ध इत्याह 1* एकस्यत्यादि । अत्र ‘परस्परविरुद्धपूर्वापरकालसबन्ध एवैकस्य कथामिति चेन्न ; स्वापेक्षया पूर्वापरत्वस्यासिद्धेः । न हि स्वप्रागभावप्रध्वंसावच्छिन्नकालसंबन्धित्वं वस्तुनो ब्रूमः ! अन्यापेक्षया पूर्वापरयोरपि कालयोरेतदपेक्षया स्वकालत्वे विरोधाभावः क्षणेऽपि स्वीकार्यः । यथा परमाणुद्वयापेक्षया पूर्वापरीभूतस्यापि तन्मध्यदेशस्य परमाण्वन्तरं प्रति स्वदेशतया न तस्य तत्संबन्धविरोधः । अन्यथा क्षणोऽपि पूर्ववत् क्षुण्णः । तथाऽपि पूर्वपरकालयोः तदुपाध्यो विरुद्धयोस्तेजस्तमसोरिव कथमेकत्र समावेशः? अविरोधे तु यौगपद्यप्रसङ्ग इति चेन्न; योगपद्ये हि तयोर्विरोधः न त्वेकवस्तुसंबन्धे ! अन्यथा एकज्ञानसंबन्धेऽपि विरोधप्रसङ्गेन प्रत्यभिज्ञास्वरूपस्यानुत्पत्तिप्रसङ्गात् । यदि पुनः कालयोस्स्वरूपभेदेन तादात्म्यविरोधो विवक्षितः तर्हि रूपरसयोरिव नैकवस्तुसंबन्धं प्रतिभन्स्यति' इति न्यायसिद्धाञ्जन