________________
सरः ]
तत्त्वेदन्त्वयोरेकधर्मिसंबन्धायोगादप्रमात्वशङ्का प्रत्यभिज्ञायाः 353
तत्वमुक्ताकलापः अत इह न मितिः प्रत्यभिज्ञेति चेन्न । सर्वार्थसिद्धिः
प्रत्यभिज्ञा न प्रमितिः । * विरुद्वविषयत्वात् शुक्तिरूप्यधीवत् प्रत्यभिज्ञात्वादेव वा दीपादिप्रत्यभिज्ञावदिति चेत् ? अत्र न कालयमात्रं वस्तुनि विरुद्धं । विरुद्धकालान्वयस्तु नास्तीत्यभिप्रायेण प्रतिवक्तिनेति ।
2 * अतत्तामनिदन्तां च तत्त्वेदन्त्वे निरस्यतः । अन्योन्यप्रतिषेधस्तु न ततस्सेदुमर्हति ॥ आनन्ददायिनी
इत्यनवस्थेत्यर्थः । कालद्वयमात्रं - कालद्वयसम्बन्धमात्रं । ननु तत्तेदन्तयोरन्योन्यप्रतिक्षेपकत्वात् कथमेकत्रेत्यत्राह - अतत्तामिति । तत्ता स्वाभावं इदन्ता च स्वाभावं तत्तेदन्ते च प्रतिक्षित इत्यर्थः । ततः`तस्मात् । तत्तेदन्तयोः प्रतिक्षेपकत्वं सेद्धुं (सोढुं ) भवितुं नार्हतीत्यर्थः ।
भावप्रकाशः
'* विरुद्धविषयत्वादिति —
अभेदाध्यवसायेन भिन्नरूपेऽपि वृत्तितः ।
इति तत्वसंग्रहवाक्यमत्रानुसन्धेयम् । अतत्तामित्यादि - तदंशेन नैतत्कालसंबन्धव्यवच्छेदः किंतु तत्काला संबन्धस्य । इदमंशेनापि न तत्कालसंबन्धव्यवच्छेदः अपि तु एतत्काल संबन्धस्यैवेत्यर्थः । अयमाशयः - धर्मिणि तदंशस्य पूर्वं प्रत्यक्षतो निश्चयेऽपि एतत्काला संबन्धभ्रमस्संशयो वा न ततो निवर्तते । इदमंशमात्र प्रत्यक्षे च धर्मिणि तत्काला संबन्ध
:
SARVARTHA.
23