________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
जडद्रव्य
तत्वमुक्ताकलापः कालद्वैतेऽनवस्थादि
सर्वार्थसिद्धिः संबन्धस्तत्त्वं । वर्तमानकालसंवन्ध इदन्त्वं । न ह्यतीतं वर्तत इति सम्भवति! सर्वेषां नित्यत्वप्रसङ्गात् । वर्तमानं च यद्यतीतं कथमस्मदादिप्रत्यक्षेण गृह्येत । किंच कालद्वयान्वयरूपयोः तत्त्वेदन्त्वयोरेकवस्तुसम्बन्धः एकस्मिन् काले भिन्ने वा? पूर्वत्र विरोधः । तस्मिन् एतस्मिन् तदुभयपूर्वापरे वा क्वचिदपि काले कालान्तरसम्भेदायोगात् । अन्यथा त्रैकाल्ययोगपद्यप्रसङ्गात् । एतेन विरुद्धानुपहितविषयेति विशेषणं चासिद्धं । उत्तरत्र कालद्वयनिर्वाहककालभेदाश्रयणे तयोरपि तथेत्यनवस्थापातः । न चैवं दृष्टमिष्टं वा! न च देशद्वयप्रतिबन्दिः! अस्माभिस्तदनभ्युपगमात् । तस्मात्कालद्वयविशिष्टे वस्तुनि प्रवृत्ता कृत्स्ना
आनन्ददायिनी पूर्वशेषत्वान्न पृथक्संगतिरिति भावः । वर्तमानं चेति - वर्तमानस्य तत्ताश्रय (यातीतादि) भिन्नत्वेन संप्रतिपन्नवादिन्द्रियसम्बन्धाभावादिति भावः । तस्मिन्-अतीतकाले । एतस्मिन् वर्तमानकाले । तदुभयपूर्वापरे अतीतवर्तमानकालात्पूर्वापरयोरित्यर्थः । पूर्वश्वापरश्चपूर्वापरं; एकवद्भावः । कचिदपि काले तदन्यकालसम्बन्धस्यासम्भवादिति भावः । त्रैकाल्येति-भूतभविष्यद्वर्तमानकालानामित्यर्थः । समाहारद्विगोः स्वार्थे प्यञ् त्रैलोक्यमितिवत् । उत्तरत्रेति-भिन्नकाले वेति द्वितीयपक्षे । तयोरपि-निर्वाहककालयोरपि कालभेदमादाय सम्बन्ध