________________
सरः] कालभेदेन विरुद्धस्वीकारेऽपि नाव्यवस्था, अन्यथा एकानेका द्यसिद्धिः 351
तत्वमुक्ताकलापः तत्त्वेदन्त्वे हि कालान्तरघटनमये नैककाले घटेतां
सर्वार्थसिद्धिः सिध्यत् । तदभावे च कुतोऽनेकमिति माध्यमिकमतापातः । सैव सुगतमतकाष्ठेति तत्र तिष्ठाम इति चेत् ; तनिष्ठेन त्वया अस्मन्मतबाधकानुपन्यासे विवादाभावः । तदुपन्यासे तु तत्रतत्र तद्वाधावाधविकल्पदास्थ्यं दुष्परिहरमिति भावः ॥ २५ ॥
पुनरपि प्रकारान्तरेण प्रत्यभिज्ञाबाधकं विरुद्धधर्माध्यासं प्रतिबन्दिविशेषमप्याशङ्कते-तत्त्वेदन्त्वे हीति । अतीतकाल
आनन्ददायिनी जन्यत्वाजन्यत्वादिप्रकारेण । तदभावे इति-तथाच वस्तुनः पारमार्थिकत्वे तस्यैव किञ्चित्प्रति कुर्वत्त्वं किञ्चित्प्रत्यकुर्वत्त्वमित्यादि. विरुद्धधर्माध्यासस्यावश्यकत्वात् ; तादृशस्यासम्भवात् ॥
कुर्वतोऽकुर्वतो नैक्यं सतश्चाप्यसतस्तथा ।
अजन्यस्य च जन्यस्य तथाभातमतो मृषा ॥ इति माध्यमिकमतापात इत्यर्थः । सैवेति-माध्यमिकमतमेवेत्यर्थः। शैत्यं हीत्यादिवत् स्त्रीत्वं । तदुपन्यास इति-बाधकोपन्यासे उपन्यस्तं प्रमाणं बाधितं न वा ? आये अस्मन्मतबाधो न स्यात् । द्वितीये बाघस्याबाधितत्वान्माध्यमिकमतं न स्यादिति माध्यमिकमस्य दुस्थत्वादित्यर्थः ॥ २५ ॥
ननु पूर्वमेव प्रत्यभिज्ञायां विरुद्धधर्माध्यासदोषमाशङ्कय परिहृतत्वात् उत्तरपद्ये पुनस्तदेवोच्यत इति पौनरुक्तयमित्यत आह-पुनरपीति ।