________________
350
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
तत्वमुक्ताकलापः
तेन नैकं क्वचित्स्यात् ॥ २५||
सवार्थसिद्धिः
[जडद्रव्य
विरोधः परिहियते ! क्वचिच्छक्तं कचिदशक्तं केनचिज्जन्यते व्यज्यते वाध्यते वा नान्येन । कस्यचित्प्रतियोगी व्याप्यः व्यापकः पूर्वः परो वा नान्यस्येत्यादि । एवं विषयभेदादपि विरोधस्ते दुष्परिहरः । ततः किमित्यत्राह — तेनेति । विरुद्धानां देशकालाद्यसमाहितविरोधत्वेन स्वलक्षणस्यापि विरुद्धशतक्षुण्णतया नानात्वे तत्क्षोदानां च तथातथा क्षोदे किञ्चिदप्येकं न
आनन्ददायिनी
दर्शयति—क्वचिच्छक्तमिति । दण्डो घटे शक्तः पटोत्पादने शक्तयभाववान् घटः क्वचिदधिकरणे जायते कचिद्व्यज्यते क्वचिद्वाध्यते ; एवं केनचिज्जन्यते व्यज्यते बाध्यते च नान्येन तथा कस्यचित्प्रतियोगी कस्यचिद्याप्यः कस्यचिद्यापकः इति शक्तत्वाशक्तत्वादीनामविरोध इत्यर्थः । आदिशब्देन कुत्रचित्संयोगतदभावादीनां ग्रहः । परः पूर्व इत्यादौ कस्यचिदित्यस्य तस्मादिति विभक्ति - विपरिणामेन कस्माच्चिदित्यन्वयः । केचित्तु —' अन्यारादितरर्ते' इत्यादिना दिक्छब्दयोगे पञ्चम्याः 'तस्य परमाम्रेडितम्' इति निर्देशेन अनित्यत्वज्ञापनात् कस्यचिदित्यनुषङ्गः । भवत्पक्षे भिन्नविषयकत्वादिभिरपि विरोधपरिहारो न सम्भवति भिन्नविषयकत्वादेरपि विरुद्धत्वादित्याह -- एवमिति । विषयभेदो भिन्नविषयत्वं । आदिशब्देन करणभेदादिसंग्रह: । तत्क्षोदानां क्षणिकस्वलक्षणाद्भिन्नानां भागानां । तथातथा