________________
सरः] एकस्मिन्कालद्वयायोगेदेशप्रतिबन्द्याऽनिष्टापादनं कालिकविरोधेव्यवस्थाच 355
तत्वमुक्ताकलापः स्वस्य स्वाभावकाले विहतिनियमनात्
सर्वार्थसिद्धिः तर्हि कालद्वयविरोधः कुत्रेत्यत्राह-स्वस्येति। नियमनात्1*यथाप्रमाणं व्यवस्थापनादित्यर्थः। अत एवातीतस्य वर्त
भावप्रकाशः सूक्तिरनुसन्धेया '* यथाप्रमाणमिति-एतेन रत्नकीर्तिना ‘न हि वयं परिभाषामात्रादेकत्र कार्ये देशभेदादविरुद्ध शक्तयशक्ती ब्रूमः ! किं तु विरोधाभावात् । तद्देशकार्यकारित्वं हि तद्देशकार्याकारित्वेन विरुद्धं ; न पुनदेशान्तरे तत्कार्याकारित्वेन अन्यकार्यकारित्वेन वा । यद्येवं तत्कालकार्यकारित्वं तत्कालकार्याकारित्वेन विरुद्धं ; न पुनः कालान्तरे तत्कार्याकारित्वेन अन्यकार्यकारित्वेन वा । तत्कथं कालभेदेऽपि विरोधः इति चेत् ; उच्यते-द्वयोर्हि धर्मयोरेकत्र धर्मिण्यनवस्थितिनियमः परस्परपरिहारस्थितिलक्षणो विरोधः । स च साक्षात्परस्परप्रत्यनांकतया भावाभाववद्वा भवेत् । एकस्य वा नियमेन प्रमाणान्तरेण बाधनान्नित्यत्वसत्त्ववद्वा भवेदिति न कश्चिदर्थभेदः । तदत्रैकधर्मिणि तत्कालकार्यकारित्वाधारे कालान्तरे तत्कार्याकारित्वस्य अन्यकार्यकारित्वस्य वा नियमेन प्रमाणान्तरेण बाधनाद्विरोधः; तथाहियत्रैव धर्मिणि तत्कालकार्यकारित्वमुपलब्धं न तत्रैव कालान्तरे तत्कार्याकारित्वं अन्यकार्यकारित्वं वा ब्रह्मणाऽप्युपसंहर्तुं शक्यते येनानयोरविरोधस्स्यात् । क्षणान्तरे कथितप्रसङ्गविपर्ययहेतुभ्यामवश्यंभावेन धर्मिभेदप्रसाधनात् । नच प्रत्यभिज्ञानादेकत्वसिद्धिः; तत्पौरुषस्य निर्मूलितत्वात् । अत एव वज्रोऽपि पक्षकुक्षौ निक्षिप्तः ।
23*