________________
सरः] प्रत्यभिज्ञाया न केवलस्मृतित्वं, स्मृतित्वेऽपिनानिष्टं, न च तस्या अप्रमाःवं 331
सर्वार्थसिद्धिः अत एव संस्कारप्राधान्यमुत्प्रेक्ष्य केवलस्मृतित्वशङ्काऽपि निरस्ता । * भवतु वा स्मृतित्वमपि ; तथापि स्मृत्यनुभवात्मकमेकं ज्ञानं स्वविषयस्य स्थिरत्वं साधयत्येव । कथमग्रमा स्मृतिरथ व्यवस्थापयेत् ? इति चेत् ; किमत्राप्रमात्वम् ? ज्ञानव्यतिरिक्तत्वं वा? अनुभवव्यतिरिक्तत्वं वा? अयथार्थत्वं का? नाद्यः । असिद्धेः । न द्वितीयः त्रितयप्रकाशवादिभिः स्मृतेरपि आत्मस्वात्मविषयेऽनुभवत्वस्वीकारात् । * त्वया च स्वसंवेदनांशेऽपि । विषयांशे अनुभवव्यतिरिक्तत्वं स्मृतेरिति चेत् ; तथाभूतापि स्वकारणानुभवात् स्वविषय
आनन्ददायिनी संस्कारजन्यत्वं स्मृतित्वप्रयोजकमिति परिहरति--अतएवेति । उक्तरी(ग)त्या प्रत्यक्षत्वस्य सिद्धत्वादित्यर्थः । स्वसंवेदनांशे--स्वात्मांशे इत्यर्थः ; बौद्धैरपि स्वप्रकाशत्वस्वीकारादिति भावः। शङ्कते-विषयांशे इति । तथाभूताऽपीति—अनुभवव्यतिरिक्ताऽपि कारणरूपानुभवमाक्षिप्य तद्दरा अबाधितं विषयं साधयतीत्यर्थः । स्वकारणानुभवादिति
भावप्रकाशः 1 * भवतु वा स्मृतित्वमिति । * त्वयेति । एतेन
यदि वा योगसामर्थ्यात् भूताजातनिभं स्फुटम् । लिङ्गागमनिराशंसं मानसं योगिनां भवेत् ॥ ३४७४ ।। स्वात्मावभाससंवित्तः तत्स्वलक्षणगोचरम् ।
स्पष्टावभासं संवित्तेः तच्च प्रत्यक्षमिष्यते ॥ ३४७५।। इति तत्वसंग्रहे सौत्रान्तिकमतेनापि योगिज्ञानस्य प्रत्यक्षप्रमात्वं साफSARVARTHA.
22