________________
338
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्व्य
सर्वार्थसिद्धिः मवाधितं व्यवस्थापयेत् । * अस्वातन्त्रयादिविचारस्त्वत्र * प्रकृतानुपयुक्तः। न तृतीयः; यथार्थस्मृतौ विरोधाभावात् । सर्वापि स्मृतिरयथार्था अतीतस्य वर्तमानतयाऽवभासादिति चेन्न ; अतीततयाऽपि प्रायशः स्मृतिभिरर्थोल्लेखात्। प्रच्युततदाकारस्य तद्वत्तया भासनादयाथार्थ्यमिति चेन्न; स्मृतिप्रमोषे तदभावात् । अतीतादिविषयानुमानानामपि तत्प्रसङ्गाच्च । तर्हि पाकरक्तेऽपि श्यामत्वधीर्यथार्था स्यादिति च मन्दं ; प्राचीनश्यामताबुद्धौ विरोधाभावात्। एतेन स्मृतिर्न बाह्यविषया नष्टेऽप्यर्थे
आनन्ददायिनी ल्यब्लोपे पञ्चमी। ननु स्मृतित्वेऽस्वातन्त्रयं न स्यादिति शङ्कां परिहरति-अस्वातन्त्रयेति। स्वातन्त्रयास्वातन्त्रययोरर्थव्यवस्थापनादावनुपयोगादित्यर्थः । ननु ज्ञानं स्वसमानकालिकत्वेन स्वविषयावभासनस्वभावं । तथाच स्मृतिरपि स्वविषयमतीतदेशकालादिकं वर्तमानतया गृह्णती बाधितवियत्वादप्रमेति शङ्कते--सर्वापीति । तादृशस्वभावोऽसिद्ध इति परिहरति-नेति । प्रच्युततदाकारस्य-अवगतपूर्वकालादिसंबन्धस्य । स्मृतिप्रमोषः---तत्तानवगाहिस्मृतिः । यथा ज्ञानद्वयं भ्रम इति पक्षे इदं रजतमित्यत्र रजतस्मृतिः । यदि ज्ञानस्यातीतादिविषयकस्याप्रामाण्यनियमः तदा दोषमाह-अतीतेति । प्राचीनश्यामताबुद्धौ--प्राचीनतया श्यामताबुद्धौ श्यामतामात्रबुद्धौ चेत्यर्थः ।
भावप्रकाशः यता शान्तरक्षितेन प्रत्यभिज्ञायाः भ्रान्तत्वसाधनमनुचितमिति सूचितम् । *अस्वातन्त्रवादीति । आदिपदेन अधिगतार्थगन्तृत्वपरिग्रहः । *प्रकृता