________________
336
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः '* प्रत्यक्षविरोधादेव ।
___ भावप्रकाशः प्रत्यक्षं व्यक्तभासित्वात् प्रमाणं वस्तुसंगतेः ।
चक्षुराद्याश्रयोद्भूतनीलादिप्रतिभासवत् ॥ ३४४४ ॥ इत्यादि च । अत्र योगिज्ञानस्यापि मानसत्वोक्तया 'मनोऽसंबद्ध' इत्याचार्यसूक्तौ तदनुपपत्तिः विवक्षितेति बोध्यम् । एतच्च बुद्धिसरे 'स्मृतिवदनुभवोऽप्यस्ति नष्टादिकेषु (१२४)' इत्येतद्विवरणे — अतीतानागतानुमानागमयोगिप्रत्यक्षेषु नष्टविषयकत्वेऽपि याथार्थ्यं भवानेवाङ्गीकरोतीत्यर्थः' इत्यत्र व्यक्तीभविष्यति । 1 * प्रत्यक्षाविरोधादेवेति' यस्मात् प्रत्यक्षवलोत्पन्नेनाध्यवसायेन दृष्टत्वेनार्थोऽध्यवसीयते' इति (३७) उदाहृतधर्मोत्तराचार्यवाक्योक्तदिशा अनन्तरोत्पन्नज्ञानेन प्रथमज्ञानस्य प्रत्यक्षतासिद्धिरिति भावः ।। ___ पूर्वसंविदिताकारगोचरं चेदिदं भवेत् ।
जायेत पूर्वमेवेदम् . . . . . . . || इत्युक्तिरपि योगिज्ञानस्यापि योगबलात्पूर्वमुत्पत्तिप्रसङ्गवदेव समाधेया । तत्र पूर्व योगाभ्यासबलविरहवदत्रापि संस्कारसचिवेन्द्रियरूपकारणविगमस्य सुवचत्वात् । योगाभ्यासबलाद्योगिज्ञाने तीतार्थानामिव अत्राऽपि संस्कारबलात् पूर्वसंविदिताकारस्य भानं; स्फुटाभत्वाद्योगिज्ञाने प्रत्यक्षत्वमिव तमेतं पश्यामीति प्रतीतिबलादत्रापि प्रत्यक्षत्वं चाप्रकम्प्यम् । बौद्धप्रत्यक्षलक्षणं शून्यानात्मादिरूपस्य भाविकत्वं च बुद्धिसरे दूषयिष्यते । अतः ‘अभेदाध्यवसायेन भिन्नरूपेऽपि' इत्यादिकमपि हेयं । भिन्नरूपत्वस्यासिद्धरिति । एतच्च 'तत्त्वेदन्त्वे हि' इति श्लोके साधयिष्यते । 'निष्पादितक्रिये चार्थे ' इत्यादि दूषयितुं स्मृतित्वमभ्युपेत्याह