________________
सरः] इन्द्रियासंबद्धग्रहणानुपपत्तितत्परिहारसाम्यं प्रामाण्योपपत्तिः स्मृतित्वापत्तिश्च 335
सर्वार्थसिद्धिः भयजन्यसंस्कारसहकारादिति चेत् ; समानमत्राऽपि । दृष्टत्वात्तथैव तत्रेति चेत् ; अत्रापि तथैव । वेद्याकारैकदेशादुत्पन्नस्य प्रत्यक्षत्वे शुक्तिरजतधीरपि मानं स्यादिति चेन्न; आरोपानारोपाभ्यां विशेषात् । किश्च संस्कारोपनीतरजताद्यारोपे च इदं रजतमिति चाक्षुषबुद्धिरेका । न हि तत्र रजताद्रुद्धयुत्पत्तिः! तस्यासन्निहितत्वात् । अर्थजत्वेन त्वदुत्ताविसंवादित्वप्रसङ्गाच्च । इन्द्रियजन्यतया प्रत्यक्षत्ववत् संस्कारजन्यतयास्मृतित्वमपि दुर्निवारमिति चेन्नः तमेतमनुभवामि पश्यामीत्यादि
__ आनन्ददायिनी वेद्याकारो विषय इत्यर्थः । प्रत्यक्षत्वे-प्रत्यक्षप्रमात्वे । शुक्तिरजतेति-तस्या अपि वेद्याकारैकदेशेदमंशजन्यत्वादिति भावः । अर्थजन्यत्वाभावे किं प्रमात्वं न स्यादिति विवक्षितम् ? उत तदैक्यं न स्यादिति ? इति विकल्पमभिप्रेत्य आद्यं परिहरति-आरोपेति । अर्थजत्वाभावेऽपि बाधितेतरविषयत्वेन अनुमितिवत् प्रामाण्यसम्भवादिति भावः । द्वितीयं परिहरति-किञ्चेति । तथाच व्यभिचारादर्थजत्वं तदैक्यस्याप्रयोजकमित्यर्थः । तमेतमिति-संस्कारजन्यत्वं स्मृतित्वप्रयोजकं न भवतीत्यर्थ. । नन्विन्द्रियस्येव संस्कारस्य प्राधान्यात् केवलस्मृतित्वमस्तु विनिगमकाभावात् इति शङ्कां बाह्येन्द्रियसन्निकर्षनिरपेक्ष
भावप्रकाशः शून्यानात्मादिरूपस्य भाविकत्वं च साधितम् । भूतार्थभावनोद्भूतः प्रमाणं तेन संमतम् ॥ ३४४३ ॥