________________
सरः
त्रिगुणपरीक्षायां क्षणभङ्गावतरणम्
317
सर्वार्थसिद्धिः अधवैनाशिकनिरासाय सत्कार्यवादे साधिते तुल्यन्यायतया सर्वनित्यत्ववादेन समुत्थितस्सांख्यो निरस्तः। अथ '*पक्ष
__आनन्ददायिनी सांख्यनिरसनानन्तरमेव वैनाशिकनिरसने संगतिमाह-अर्धवैनाशिकेति । अर्धवैनाशिको-वैशेषिकः ।
भावप्रकाशः . * पक्षत्रयप्रतिपक्षमिति-यद्यपि तत्वसंग्रहे त्रैकाल्यपरीक्षायां शान्तरक्षितेन
हेम्नोऽनुगमसाम्येन स्थिरत्वं मन्यते तदा ।
अवस्थाभेदवान् भावः कैश्चिद्वौद्धैरपीष्यते ।। इत्युक्तं । तत्र पञ्चिकायां 'भावान्यथावादी भदन्तधर्मत्रातः लक्षणान्यथावादी भदन्तघोषक: अवस्थान्यथावादी भदन्तवसुमित्रः पूर्वापरमपेक्ष्य अन्यथाऽन्यधिको बुद्धदेवः' इति चत्वारोऽस्तिवादाः भावलक्षणावस्थाऽन्यथान्यधिकसंज्ञिता विशदीकृताः। तत्र योगभाष्ये . लक्षणपरिणामविचारावसरे यदुदाहरणं तदेवात्राऽपि द्वितीयपक्षे उपन्यस्तं।
अवस्थापरिणामविचारावसरे योगभाष्योक्तोदाहरणद्वये एकैकमुदाहरणमालम्ब्य तृतीयचतुर्थपक्षयोः पृथग्भावः । अतो नित्यात्मतत्ववादिनो । 'वात्सीपुत्रा इव एतेऽपि स्थिरद्रव्यवादिनो वैभाषिकैकदेशिनः 2.सांख्यच्छायानुसारिणः ।। तेच इत्थं द्रव्यस्य स्थिरत्वं साधयन्ति
अतीताजातयोनिमन्यथाऽविषयं भवेत् । द्वयाश्रितं च विज्ञानं तायिना कथितं कथम् ॥ १७८८ ॥ कर्मातीतं च निस्तत्वं कथं फलदमिष्यते । अतीतानागते ज्ञानं विभक्तं योगिनां च किम् ॥