________________
316
सव्याख्यसर्वार्थसिद्धिसाहेततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
क्रियावद्भिः पटादेश्व कारकैस्तादृशोऽन्वयः । प्रधाने भागनिष्पत्त्या भागैरैक्याच भागिनः || प्राक्सत्त्वं सर्वभावानां मिथश्चैक्यमिति त्वसत् ! भिन्नांशपूर्वसत्त्वे हि नाभिन्नाद्भेदसम्भवः ॥ भिन्नाभिन्नाद्यभिव्यक्तिर्भेदानां प्राक्तनी भवेत् । एकस्य प्रागसन् भेदो यदि स्यादस्मदिष्टवत् || प्राकसतोऽस्याप्यवस्था चेत्तथाऽप्यस्मदभीष्टवत् । इति सांख्योक्तसत्कार्यवादनिरासः.
[ जडद्रव्य
आनन्ददायिनी
;
प्रधाने उपादाने भोग्यांशस्य निष्पत्त्या तादृगन्वयस्साध्यसाधनभावान्वयोस्तु तथा च न कारकव्यापार वैयर्थ्यं भागिनोंऽशिन उपादानस्य भागैरंशैरैक्यात्सर्वभावानां प्राक्सत्त्वमन्योन्यमैक्यं चेति शङ्कते – क्रियावद्भिरिति । भेदः प्राक्सन्न वेति विकल्पमभिप्रेत्य आद्यं दूषयति———-भिन्नांशेति । नाभिन्नादिति । भेदस्यापि पूर्वसिद्धत्वान्न कारकैः (कव्यापारसाध्यत्व ) संभव इत्यर्थः । नन्वेकमेव वस्तु भिन्नं चाभिन्नं च । तत्र कारकैर्भेदस्याभिव्यक्तिः करिष्यत इर्ति शङ्कते — भिन्नाभिन्नादीति । तस्मादभिव्यक्तेरेव प्राक्तन्या न साध्यत्व - मिति साऽपि न साध्येति दूषयति – प्राक्तनीति । द्वितीयं दूषयतिएकस्येति । अस्मदिष्टवत् । अस्मदिष्टमस्मिन् वर्तत इत्यर्थः । इष्टयदिति पाठान्तरं । इष्टं करोतीत्यर्थः ॥ २४ ॥
इति सांख्योक्तसत्कार्यवादनिरासः,
-
-