________________
318
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
লিভ
भावप्रकाशः न द्रव्यापोहविषया अतीतानागतास्ततः । इति (तत्वसंग्रहे) अत्र पञ्चिका-'उक्तं हि भगवता अतीतं चेद्भिक्षवो रूपं नाभविप्यन्न श्रुतवानार्यश्रावकोऽतीतरूपेऽनपेक्षोऽभविष्यत् । यस्मात्ततीतं रूपं तस्माच्छूतवानार्यश्रावकोऽतीतरूपेऽनपेक्षो भवतीति विस्तरः । तथा यत्किञ्चिद्रूपमतीतमनागतादि तत्सर्वमभिसंक्षिप्य रूपस्कन्ध इति सख्यां गच्छतीत्यादि । किञ्च द्वयं प्रतीत्य विज्ञानमुत्पद्यते इति भगवतोक्तं । कतमवयम् ? चक्षूरूपाणि यावन्मनोधर्माः इति' इति । किञ्च आसीन्मान्धानो ब्रह्मदत्तो भविष्यति शङ्खश्चक्रवर्ती मैत्रेयस्तथागत इत्यादि' इति च । अत्रैव पूर्व अस्माभिः उदाहृतं (२९) 'कामेऽष्टद्रव्यकोऽणुशब्दः, इति (न्या-वा-ता-टीकास्थं) बुद्धवाक्यमप्येतत्पक्षे द्रव्याङ्गीकारेण स्वरसं । क्षणिकत्वोक्तिस्तु धर्माणामागमापायितया तेषु क्षणिकता सम्भवेन तन्निबन्धना स्यात् । अत एव स्वलक्षणाभिधेयस्थिरद्रव्यविषयनिर्विकल्पकं प्रमा; क्षणिकधर्मावगाहिविकल्पोऽप्रमा इत्यपि सम्भाव्यते। एवं च निरन्वयविनाशवादितया वैनाशिकशब्दवाच्यबौद्धमतसामान्यस्य सांख्यादिप्रतिपक्षता न युक्ता । तथाऽपि तत्वसंग्रहे
किञ्चातीतादयो भावाः क्षणिकाः स्युन वा यदि । आद्याः पुनस्तयोः प्राप्ता सैवापरिमिताध्वता ॥ १८३१ ॥ यःक्षणो जायते तत्र वर्तमानो भवत्यसौ । उत्पद्य यो विनष्टश्च सोऽतीतो भाव्यनागतः ॥
अथाऽप्यक्षणिकास्ते स्युः कृतान्तस्ते विरुध्यते । इत्यादिना दूषणमभिधाय
रूपादित्वमतीतादेर्भूतानां भाविनीं तथा । अध्यारोप्य दशामस्य कथ्यते न तु भावतः ॥ १८४६॥