________________
सर:]
स्वमते उत्पत्तिपदार्थविषयकाकरग्रन्थसंगमनम्
311
भावप्रकाशः नष्टस्य पुनर्जन्माभिधाय जननमरणयोरुभयोरवर्जनीयत्वरूपैकधर्मकथनेन द्वयोरेकजातीयता सूचिता। एतत्तात्पर्येणैव भाष्ये उभयोः परिणामरूपत्वस्थापनं । तेन सिद्धान्ते जायते नश्यतीत्युभयत्राख्यातार्थ आश्रयत्वमेकरूपमेव । नैयायिकमते तु नश्यतीत्यत्र प्रतियोगित्वमेवाख्यातार्थः न तु आश्रयत्वं ; तथा सति घटादिनाशस्य प्रतियोगिसमवायिकारणकपालादिवृत्तितया घटादे शाश्रयत्वासम्भवेन घटो नश्यतीत्यादिप्रयोगानुपपत्तेः । स्पष्टं चेदं व्युत्पत्तिवादे । किञ्च घटः कपालोऽभवत् चूर्णोऽभवत् इत्यादिशब्दप्रयोगेष्वपि घटादेर्नाशप्रतीतिरनुभवसिद्धा; सापि नैयायिकमते स्वरसतो न सङ्गच्छते । अपिच जायते म्रियते इति व्यवहारतुल्यावेव उत्पद्यते नश्यतीति व्यवहाराविति सर्वलोकसाक्षिकमेतत् । तत्र जायते इत्यत्र आद्यप्राणशरीरसंयोगः म्रियते इत्यत्र चरमप्राणशरीरवियोगो विषय इति प्रतिपादयद्भिः उत्पद्यत इत्यत्राद्यक्षणसम्बन्धः नश्यतीत्यत्र क्षणवियोगविलक्षणो नाशो विषय इति भाषणमप्ययुक्तम् । किञ्च घटोऽजायत जनिष्यते जायते इत्यत्राद्यक्षणसम्बन्धेऽतीतानागतवर्तमानकालसम्बन्धो लकारेण बोध्यते इति तैर्वाच्यम् । तच्च ‘जनीप्रादुर्भावे' इत्यादेरनुभवस्य च दूरतमम् । एतेन साङ्ख्यमतेऽपि वर्तमानावस्थैवोत्पत्तिरभिव्यक्तिर्जनिधात्वर्थः । इत्थं च घटो जायते इत्यादौ वर्तमानकालीनवर्तमानावस्थाविषयकबोधस्तन्मते वाच्यः । स च पौनरुक्तयानुभवविरोधपराहत इति सिद्धम् । एतेन ; 'इदमत्रावधेयम्-सर्वत्रोत्पत्तिः कालनिरूपिताधेयत्वमेव । तस्य च यत्र व्यासज्यवृत्तीतरधर्मस्यान्वयितावच्छेदकता तत्र स्वविशिष्टधर्मवत्त्वसम्बन्धेन तदवच्छिन्नेऽन्वयः। धर्मे स्ववैशिष्टयं स्वावच्छेदकत्वस्वनिरूपककालपूर्वकालवृत्तितावच्छेदकत्वसम्बन्धावच्छि - नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वोमयसम्बन्धेन । यत्र च