________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
1
2
*अत एव सह प्रयोगोपपत्तिः ।
312
[ जडद्रव्य
आनन्ददायिनी
कृत्यभिप्रायं चेत्यर्थः । एतेन उत्पत्तिर्न तावत् स्वरूपं घट उत्पन्न इति सह प्रयोगानुपपत्तेः इति सांख्योक्तदूषणं निरस्तमित्याह — अत एवेति ननु उत्पत्तिरुत्पद्यते न वा? आद्येऽनवस्था; अन्त्ये उत्पत्तावुत्पत्तिव्यवहारो
भावप्रकाशः
व्यासज्यवृत्तिधर्मस्यान्वयितावच्छेदकता तत्र तादृशधर्मधर्मितावच्छेदकघटत्वपटत्वादिधर्मेषु प्रत्येकं स्वावच्छेदकत्वेत्याद्युभयसम्बन्धेनान्वयः इत्यादिना अर्वाचीनानां उत्पत्तिशब्दार्थस्य परिष्करणं; तत्र च मूलं 'अखिलभुवनजन्मेति' श्लोकविवरण तत्वटीकायां
प्रागसिद्धस्यात्मलाभ उत्पत्तिर्जन्म
"
"
इति सूक्ति:; तत्राप्ययं दोषो बोध्यः । सिद्धान्ते पटोत्पत्तिक्षणे घटस्थितिकाले घटपटोभयमुत्पद्यते इति व्यवहारस्य नापत्तिः । उभयत्वावच्छिन्ने घटे आद्यक्षणावच्छिन्नावस्थाविरहात् । वायुसंयोगसत्त्वेऽपि व्यासज्यवृत्तिधर्मस्य यत्रान्वयितावच्छेदकता तत्र तद्धर्मधर्मितावच्छेदकयावद्धर्मेषु व्युत्पत्तिवैचित्र्येणोत्पत्तेरभेदेनान्वयाङ्गीकारेण प्रकृते घटत्वे तदभावात् । आद्यत्वं च स्वसमभिव्याहृतपदतात्पर्यविषयतावच्छेदकाधिकरणक्षण ध्वंसाधिकरणक्षणध्वंसानधिकरणत्वमित्यादिकं नव्यन्यायपरिशीलनवतां सुगमम् । घटत्वस्योत्पत्तिव्यवहारोऽनुपदमेवोपपादयिष्यते । * अत एव - आद्यक्षणावच्छिन्नावस्थाया उत्पत्तिपदार्थत्वादेव । ? * सहप्रयोगोपपत्तिरिति — पट उत्पद्यते इति
1
2