________________
310
सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः स्योत्पत्तिरुच्यते । 1* 'सैव तदवस्थस्योत्पत्तिः' इति भाष्यमपि -* तदभिप्रायमेव (येणैव) स्यात् ।
आनन्ददायिनी प्रमाणयति-सैवेति । तदभिप्रायमिति । आद्यक्षणावच्छिन्नाभिप्राय
भावप्रकाशः घटत्वे वायुसंयोगाभेदविरहेण पूर्वोक्तदोषाभावेन शतदूषणीतत्वटीकोक्तदिशा अवस्थाशब्दार्थाङ्गीकारे बाधकविरहात् । ननु उत्पत्तिराधक्षणसम्बन्ध इत्येव युक्तं लाघवात् घटत्वावस्थाया अवयवसंयोगरूपाया उत्पत्तेश्शतदूषण्यामङ्गीकारेण तत्र घटत्वावस्थाविरहेणावस्थाया उत्पत्तित्वे तदनुपपत्तेश्च । एवं रूपादेरुत्पत्तिव्यवहारानुपपत्तिश्च । 'सैव तदवस्थस्योत्पत्तिः' इति भाष्ये आद्यक्षणावच्छिनत्वबोधकपदाभावात्तस्योत्पत्तिपदार्थनिर्वचनपरत्वोक्तिश्चानुचितेति शङ्कायामाह-1* सैव तदवस्थस्येत्यादि । 2 * तदभिप्रायकमितिआद्यक्षणावच्छिन्नावस्थाभिप्रायकमित्यर्थः । 'जातस्य हि ध्रुवो मृत्युः इति गीताभाष्ये—'तत्र पूर्वावस्थस्य द्रव्यस्य उत्तरावस्थाप्राप्तिर्विनाशः; सैव तदवस्थस्योत्पत्तिः' इति सूक्तिक्रमः । अत्र तात्पर्यचन्द्रिकासैवोत्तरावस्थाप्राप्तिरित्यर्थः । अत्र प्राप्तिशब्देन प्रथमक्षणागमस्य विवक्षितत्वादुत्तरक्षणेषूत्पत्तिशब्दयोगाभाव उपपन्न इति सूचितं इति । इत्थं च उत्पत्तिराद्यक्षणावच्छिन्नत्वघटितैवेति भाष्यकृतामाशयस्सिद्धः । : अथचैनं नित्यजातं नित्यं वा मन्यसे मृतम् । इत्यादिश्लोकत्रयेण देहात्मवादमभ्युपेत्य समाधानप्रकरणे ‘जातस्य हि ध्रुवो मृत्युः' इति गीताश्लोके 'ध्रुवं जन्ममृतस्य च ' इत्यनेनाचेतनस्यापि