________________
294
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः मृत्पिण्डादिषु दुस्साधं शास्त्रमप्यनिदम्परम् ॥ अप्राप्तावव्यवस्थोक्ता प्राप्तावपि तवापतेत् । व्यक्तिवादोऽत एवेत्यप्ययुक्तं तन्निरासतः ।। सत्वादिगुणभूयिष्ठभागभेदाव्यवस्थितेः । त्रिगुणद्रव्यसम्बन्धः प्रवाहानादिरात्मनाम् ॥
आनन्ददायिनी स्सृजते गृह्णते च' 'ग्रसते च चराचरम्' इत्यादिशास्त्राणां का गतिरित्यत्राह-शास्त्रमपीति । तत्राप्यवस्थाविशेषोत्पत्तिलयावादायोपपत्तिरि(पपन्नमि)ति भावः । नन्वप्राप्तानां जनकत्वे अतिप्रसङ्गात् प्राप्तस्य जनकत्वायोगादकामेनाप्यभिव्यक्तिर्वक्तव्या; दोषाश्च यथाकथंचित्परिहार्या इत्याशङ्कते—प्राप्ताविति । अत एव तव व्यक्तीत्यन्वयः। अभिव्यक्तिं प्राप्याप्राप्य वा करोतीति विकल्पक्षोभस्य समानत्वादित्याह–इत्यप्ययुक्तामति । ननु भवन्मते प्रकृतिसम्बन्धोऽनादिरित्युच्यते स च कर्मसाध्य इत्यपि; तद्वत् कार्याणां पूर्वसत्त्वेऽपि साध्यत्वमस्त्वित्यत आह–सत्त्वादिगुणभूयिष्टेति । सत्वरजस्तमोभूयिष्ठभागानामंशानां देहादिरूपेण परिणतानां अव्यवस्थितेः-अनियतत्वात् सम्बन्धस्याप्येकत्वाभावेन भिन्नभिन्नत्वात् बीजाङ्कुरन्यायेन पूर्वपूर्वेषां प्रकृतिसम्बन्धानामुत्पत्तिरित्यर्थः । नन्वेवमनादित्वोक्तिः कथम् ? इत्यत्राह-प्रवाहानादिरिति । ननु जीवानां ज्ञानं संसारदशायां तिरोहितमितीष्यते । तिरोधानं चास्य तत्प्रागभाव एव । स चानादिः । स च कर्मणेति कर्मकृतत्वं कथम् ? इत्याशङ्कय प्रवाहानादि(तया) संविद्विकाससङ्कोचरूपसंतन्यमानकादाचित्कावस्थारूपत्वात्प्रागभावस्य क