________________
सरः] सर्वानत्यत्वे पौर्वापर्यासंभवः स्वप्रवृत्तिवैफल्यं शास्त्रानुत्थितिरिल्यादि 293
सर्वार्थसिद्धिः साङ्ख्यचार्वाकयोस्स्यातां साध्यसाधनबाधनात् । अयोग्यत्वं तिरोधानं योग्यत्वं व्यक्तिरित्यपि ।। तन्नित्यानित्यताभ्यां ते विवक्षितविघातकृत् । इन्द्रियप्रतिघातेन भागैर्भागान्तरावृतिः ।। यथाऽन्यत्र तथा नात्र कादाचित्कदशात्यजः । असम्भवनिरस्तं च ग्रसनोद्सनादिकम् ।
___ आनन्ददायिनी (अनुमाना)पेक्षया पश्चात् स्थितिः-अप्रामाण्यामिति यावत् । केचित्तु अनुत्थितिः-व्यर्थप्रवृत्त्यनुसरणमित्यर्थ इत्याहुः । साङ्ख्यचार्वाकयोरित्यत्र चार्वाकग्रहणं दृष्टान्तार्थम् । यथा चार्वाकमते कार्यकारण भावस्य साधनाभावात् प्रवृत्त्यादिवैफल्यं शास्त्रादेरप्रामाण्यं च तथा साङ्ख्यस्यापि स्यादित्यर्थः । अयोग्यत्वमिति—प्रत्यक्षायोग्यत्वं तद्योग्यत्वं चेत्यर्थः । विवक्षितविघातकृदिति-अनभिव्यक्तस्य कदाचिदभिव्यक्तयर्थं प्रवृत्त्यादिसाफल्यसमर्थनभङ्गकृदित्यर्थः । ननु परेषां यस्तिराधानपदार्थस्तदभावश्च तावेवास्माकमपि स्त इत्यत्राह-इन्द्रियेति । इन्द्रियप्रतिघातः-इन्द्रियप्रवृत्तिनिरोधः । अन्यत्र-अन्येषां पक्षे । अत्रत्वत्पक्षे । कादाचित्केति-इन्द्रियप्रवृत्तेर्नित्यत्वे तत्प्रतिघातायोगात् तत्प्रतिघाताङ्गीकारे प्रतिघातस्य नित्यतयाऽनभिव्यक्तस्य कदाचिदभिव्यक्तययोगादित्यर्थः । ननु दन्तिकपित्थादिग्रसनोद्गसनादिवन्मृदादिभिर्घटाघेसनोद्गसनादिकं तिरोध्यमिव्याक्तिशब्दार्थों भवत इत्यत आह – असम्भवनिरस्तं चेति । मृत्पिण्डापेक्षयाऽधिकपरिमाणस्य घटादेःमृदादिभिः ग्रसनोद्गसनासम्भवादित्यर्थः । ननु “ यथोर्णनाभ