SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ 292 सव्याख्यसर्वार्थसिद्धिसाहेततत्वमुक्ताकलापे | [লভ सर्वार्थसिद्धिः मिथश्चाभिभवाद्युक्तिर्गुणेष्वेवमनर्थिका । समानदेशकालत्वमभावप्रतियोगिनोः ।। सहन्ते क्वाप्यगत्यैव न तथानान्यथा गतेः । अपिचाशेषनित्यत्वे पौर्वापर्यं न कुत्रचित् ।। व्यक्तिभोगापवर्गादिसाध्यतोक्तिरतो मुधा । स्वप्रवृत्त्यादिनैष्फल्यं शास्त्रादेरप्यनुत्थितिः॥ ___ आनन्ददायिनी वृत्तीरिति सृष्टयर्थमन्योन्याभिभवोक्तिर्व्यर्थी अभिभवस्य नित्यत्वेन स्वतस्सिद्धत्वादित्यर्थः । केचित्तु-तिरोधेर्दुवचत्वमेवाह-तिरोधिं तन्निवृत्तिं चेति । भावाभावयोरेकंत्र वृत्त्यसम्भवा(वृत्त्ययोगा)दिति भावः । एवं च सति दूषणान्तरं च भवतीत्याह- मिथश्चेतीत्याहु । भावाभावयोरेकदैकत्र वृत्तिस्संयोगतदभावयोरिवोपलब्ध्यन्यथानुपपत्तया साधयितव्या । तथाच तिरोधितदभावयोर्नित्यत्वेऽपि तिरोधेन दुर्वचत्वमित्यत्राह—समानदेशेति । यद्वा तिरोधितदभावयोर्नित्यत्वाङ्गीकारे भावाभावात्मकयोस्तयोस्समानदेशकालत्वं विरुद्धमङ्गीकरणीयमिति दूषणान्तरमाह-समानेति । असदुत्पत्त्यङ्गीकारेणापि निर्वाहसम्भवान्नान्यथा गतिरिति भावः । किञ्चाशेषनित्यत्वे पौर्वापर्याभावात्तद्व्यवहारोच्छेदः; अभिव्यक्तयादीनां साध्यतोक्तिश्चार्थशून्येत्याह- अपिचेति । साध्य साधनभावस्य सर्वनित्यत्वमते बाधात् प्रवृत्तिनिवृत्तिवैघट्यं शास्त्राप्रामाण्यं च स्याच्चार्वाकस्येवेत्याह-स्वप्रवृत्तीति । प्रथम आदिशब्दो निवृत्तिपरः। अपगोरणादेर्नित्यस्य निवृत्त्या परिहारसम्भवादिति भाव । कृष्यादेयोतिष्टोमाद्यपूर्वस्य प्रयत्नसाध्यत्वासम्भवाच्च साध्यताबोधकानुमानादिकं द्वितीयस्यार्थः । अनुत्थितिः-अनन्तरस्थिति । प्रमाणा
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy