________________
सरः]
अभिव्यक्तेः साध्यत्वानुपपत्तिः अपसिद्धान्तः तिरोधैर्दुवचत्वं च
291
सर्वार्थसिद्धिः तयोरपि भवत्पक्षे नित्यत्वात्साध्यता कथम् ? । आवारकं च नित्यं चेत् नित्यमावरणं भवेत् ॥ अन्यथा त्वपसिद्धान्तः तत्तिरोधिश्च दुर्वचः । तिरोधि तन्निवृत्तिं च नानित्यौ तस्य मन्यसे ! ॥
आनन्ददायिनी मस्तीत्यर्थः । तत्तारतम्याङ्गीकारेपि तदादाय न व्यवस्था संभवतीत्याहतयोरपीति । अभिव्यक्तयावरणयोरित्यर्थः । आवरणतद्वारणयोरित्यन्ये । सर्वनित्यत्ववादिनः आवरणनिवारणमेव न स्यात् ; दूरे तत्तारतम्यमिति भावः । आवरणतन्निवृत्त्योर्योगपद्ये विरोधमप्याह-आवारकं चेति । । अन्यथा-अनित्यत्वे सर्वनित्यत्ववादिनः कादाचित्कसत्त्वप्रसङ्गेन अपसिद्धान्त इत्यर्थः । तत्तिरोधिश्चेति-तिरोधानं नाम ज्ञानप्रतिबन्धो वा तत्सामग्रीरूपसन्निकर्षप्रतिबन्धो वा ? उभयत्र ज्ञानसन्निकर्षों स्तो न वा ? आये विद्यमानयोस्सर्वदा सत्त्वेन नित्यतया निवृत्त्यनुत्पत्तिप्रयोजकत्वरूपप्रतिबन्धासंभवात् । द्वितीये असतस्तव सर्वदैवासत्त्वानिवृत्त्यनुत्पत्तिप्रयोजकत्वं शशशृङ्गादरिव न सम्भवतीत्यर्थः । तिरोधानतन्निवृत्त्योरनित्यत्वे चासत उत्पत्तिप्रसङ्गः । तन्नित्यत्वाङ्गीकारे दूषणान्तरमाह-तिरोधिमिति । अनित्यश्चानित्या चानित्यौ । 'पुमान् स्त्रिया' इति पुंसश्शेषः ।
अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥ इति सृष्टयर्थ सत्वरजस्तमसामन्योन्याभिभवोक्तिरनुपपन्नेत्यर्थः । सत्वं रजस्तमसी अभिभूय शान्तात्मानो वृत्तीर्लभते । रजस्सत्वतमसी अभिभूय घोरात्मानो वृत्तीः । तमस्सत्वरजसी अभिभूय मूढात्मानो
19*