________________
सव्यांख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
न हि व्यक्तौ विशेषोऽस्ति न चावरणवारणम् || आनन्ददायिनी
किमभिव्यक्तिरावरणनिवृत्तिः तदनुकूलव्यापारो वा ? नोभयत्र तारतम्यभावप्रकाशः
290
उपमानपरिच्छेदे—
पृथिव्यादिषु चैतेषां सतामेव स्वभावतः । परिंणामादिभिर्व्यक्तिर्व्यथादृष्ट्यवधार्यते ॥ न हि शक्तात्मना किञ्चिदसज्जन्म प्रपद्यते ! | इति । आत्मवादेऽपि —
[ जडद्र्व्य
नचावस्थान्तरोत्पादे पूर्वात्यन्तं विनश्यति । उत्तरानुगुणत्वात्तु समान्यात्मनि लीयते । स्वरूपेण ह्यवस्थानां अन्योन्यस्य विरोधिता । अविरुद्धस्तु सर्वासु सामान्यात्मा प्रवर्तते ॥
इति । एतच्च उदाहृतपञ्चशिखाचार्यवचनसमानार्थकम् । एवंचावस्थानामपि सर्वकालसंबन्धित्वमुभयसंगतमेव । योगभाष्ये अर्थक्रियाकारित्वतदभावोपपादनभनेकान्ताश्रयणेन कृतम् । नावस्थानां सर्वकालासंबन्ध उक्तः । सांख्यैस्तु -
अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ।
प्रवर्तते त्रिगुणतस्समुदयाच्च ।
परिणामतस्साललवत्प्रतिप्रतिगुणाश्रयविशेषात् ।
इत्यनेन 'गुणिनित्यत्वेऽपि' इत्यादियोगभाष्योक्त एवार्थोऽनेकान्तपक्षमनवष्टभ्यैवोक्त इति पक्षद्वयतात्पर्यमाकलय्य वाचस्पतिना तात्पर्यटीकायां तथोक्तमिति सुधीभिरूह्यम् ||