________________
सरः]
सांख्ययोगदर्शनयोः सर्वनित्यत्वाभिप्रायकत्वप्रदर्शनम्
289
भावप्रकाशः
लिङ्गमात्रालिङ्गानि गुणपर्वाणि २ । १९ । इति सूत्रोक्तः कथितः । एतेन यद्यपि विशेषाणां भूतेन्द्रियाणां धर्मलझगावस्थापरिणामस्तु न तत्वान्तरोत्पत्तौ हेतुः । अथाऽपि उभयोरवैलक्षण्यमेव अनुगतलक्षणाक्रान्तत्वादिति बोधितम् । गुणानां न नाशः अपितूद्भवाभिभवावेवेति विशेषाविशेषेत्यादिसूत्रभाष्ये स्पष्टम् । एवं च न पयसः परिणामगुणान्तरप्रादुर्भावात्' इत्यक्षपादसूत्रे तत्वान्तरोत्पत्तिहेतुपरिणामाभिप्रायेणैव गुणान्तरप्रादुर्भावादित्युक्तमिति बोध्यम् ॥
ननु 'न व्यवस्थानुपपत्तेः' इत्येतदवतरणन्यायवार्तिके 'सर्वं नित्यमित्येतद्यथा वर्णयन्ति' इत्येतद्विवरणे तात्पर्यटीकायां 'तदेवं साङ्ख्यानां मतमपास्य स्वायम्भुवानां मतमपाकर्तुमुपन्यस्यति — अपरे तु सर्वं नित्यं इत्येतदन्यथा वर्णयन्तीत्यवतार्य त्रिविधपरिणामं धर्मधर्मिणोर्भेदाभेदं खायम्भुवसम्मतं प्रदर्श्य 'न व्यवस्थानुपपत्तेः' इति न्यायसूत्रस्य तन्निरासकत्वमुपपाद्य साङ्ख्यवत्सत्कार्याभ्युपगमे खयं वार्तिककार आह' इत्युक्तम् । एतत्पर्यालोचनायां स्वायम्भुवानामेव परिणाम त्रैविध्यभेदाभेदवादितयाऽनेकान्तवादित्वं ; साङ्ख्यानामभेदवादित्वेन एकान्तवादित्वमेवेति प्रतीयते । त्रिविधपरिणामयोगसूत्रभाष्ये च पातञ्जलानामनेकान्तवादित्वं स्फुटमुक्तमित्युभयोर्नित्यैकान्तवादिता न घटते इति चेत् ; उच्यते —— न्यायकणिकायां वाचस्पतिरेव साङ्ख्यानां त्रिविधपरिणामवादितामभाणीत् । अनुपदमेवाचार्यास्तेषां भेदाभेदवादितां व्यक्तीकरिष्यन्ति ॥
-
अत्र योगभाष्ये–साङ्ख्यशास्त्रप्रवर्तकपञ्चाशखाचार्यवाक्योदाहरणपूर्वकं धर्माणां (अवस्थानां) सर्वदा सत्त्वं स्थापितम् । वाचस्पतिनाऽपि तद्दृढीकृतम् । यथोक्तं कुमारिलेन रूपादिकं प्रस्तुत्य लोकवार्तिके
SARVARTHA.
19