________________
288
सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
भावप्रकाशः सर्वदा सत्त्वं चतुर्णामपि गुणिगुणानां ; तथाऽपि गुणविमर्दवैचित्र्येण तदात्मभूततद्विकाराविर्भावतिरोभावभेदेन परिणामशालितया न कौटस्थ्यम् । चितिशक्तेस्तु न स्वात्मभूतविकाराविर्भावतिरोभाव इति कौटस्थ्यम् । यथाऽऽहुः
नित्यं तमाहुर्विद्वांसो यत्स्वभावो न नश्यति । इति । विमर्दवैचित्र्यमेव विकारवैचित्रये हेतुं प्रकृतौ विकृतौ च दर्शयति-यथेति । यथा संस्थानं—पृथिव्यादिपरिणामलक्षणं आदिमत् धर्ममात्रं विनाशि-तिरोभावि । शब्दादीनां-शब्दस्पर्शरूपरसगन्धतन्मात्राणां स्वकार्यमपेक्ष्याविनाशिनां—अतिरोभाविनां । प्रकृतौ दर्शयति–एवं लिङ्गमिति । तस्मिन् विकारसंज्ञा न त्वेवं विकारवती चितिशक्तिरिति भावः । तदेवं परीक्षकसिद्धां विकृतिं च प्रकृतिं चोदाहृत्य विकृतावेव लोकसिद्धायां गुणविमर्दवैचित्र्यं धर्मलक्षणावस्थापरिणामवैचित्र्यहेतुमुदाहरति-तत्रेदमुदाहरणमिति । न चायं नियमो . लक्षणानामेवावस्था परिणाम इति सर्वेषामेव धर्मलक्षणावस्थाभेदानामवस्थाशब्दवाच्यत्वादेक एवावस्थापरिणामस्सर्वसाधारण इत्याह--- धर्मिणोऽपीति । व्यापकं परिणामलक्षणमाह-अवस्थितस्येति । धर्म- . शब्द आश्रितत्वेन धर्मलक्षणावस्थावाचकः' इति ॥
अत्र विज्ञानभिक्षुणा योगवार्तिके 'एवं च सति पूर्वधर्मातीततायां धर्मान्तराभिव्यक्तिरित्येवंरूपपरिणामलक्षणान्नित्यत्वमवस्थानामपि भवद्भिर्वक्तव्यं न तु विनाशः । अवस्थानां च नित्यत्वे किमप्यनित्यं न स्यादित्येवं धर्मधादिकं सर्वं जगत् कूटस्थं स्यात् इति परैर्दोष उच्यते इत्युपसंहार' इत्याद्युक्तम्। अत्र योगभाष्ये धर्मधर्मिपदे परित्यज्य :: गुणिनित्यत्वेऽपीत्याद्युक्त्या अविशेषशब्दवाच्यशब्दादितन्मात्रपरिणामः लिङ्गशब्दवाच्यमहत्तत्वपारणामश्च तत्वान्तरहेतुभूतः । “विशेषाविशेष