SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ सरः] सांख्ययोगयोः सर्वनित्यत्वाभिप्रायकत्वप्रदर्शनम् 287 भावप्रकाशः विनाशिनां। एवं लिङ्गमादिमद्धर्ममात्रं सत्वादीनां गुणानां विनाश्यविनाशिनां; तस्मिन् विकारसंज्ञेति । तत्रेदमुदाहरणं-मृद्धर्मी पिण्डाकाराद्धर्माद्धर्मान्तरमुपसंपद्यमानो धर्मतः परिणमते घटाकार इति । घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यते इति लक्षणतः परिणमते । घटो नवपुराणतां प्रतिक्षणमनुभवन् अवस्थापरिणामं प्रतिपद्यते इति । धर्मिणोऽपि धर्मान्तरमवस्था। धर्मस्यापि लक्षणान्तरमवस्थेत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति । एवं पदार्थान्तरेष्वपि योज्यमिति । एते धर्मलक्षणावस्थापरिणामा धर्मिस्वरूपमनतिक्रान्ता इत्येक एव परिणामः सर्वानमून् विशेषानभिप्लवते । अथ कोऽयं परिणामः ? अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः' इति । अत्र तत्ववैशारदी-अत्रान्तरे परोक्तं दोषमुत्थापयति-अवस्थेति । अवस्थापरिणामे-धर्मलक्षणावस्थापरिणामे। कौटस्थ्यदोषप्रसङ्ग उक्तो धर्मिधर्मलक्षणावस्थानाम् । पृच्छति---कथामिति । उत्तरमाह-- अध्वनो व्यापारेणेति । दनः किल योऽनागतोऽध्वा तस्य व्यापारः क्षीरस्य वर्तमानत्वम् ; तेन व्यवहितत्वाद्धेतोः। यदा धर्मःदधिलक्षणः स्वव्यापारं-दाधिकाद्यारम्भं क्षीरे सन्नपि न करोति तदाऽनागतः ; यदा करोति तदा वर्तमानः ; यदा कृत्वा निवृत्तस्सन्नेव खव्यापाराद्दाधिकाद्यारम्भात् तदातीत इत्येवं त्रैकाल्येऽपि सत्त्वात् धर्मधर्मिणोर्लक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोति । सर्वदा सत्ता हि नित्यत्वम् ! चतुर्णामपि च सर्वदा सत्त्वेऽसत्त्वे वा नोत्पादः । तावन्मानं च लक्षणं कूटस्थनित्यतायाः । न हि चितिशक्तेरपि कूटस्थनित्यायाः कश्चिदन्यो विशेष इति भावः । परिहरति-नासौ दोष इति । नासौ दोषः । कस्मात् ? गुणिनित्यत्वेऽपि गुणानां विमर्दः-अन्योऽन्याभिभाव्याभिभावकत्वं ; तस्य वैचित्र्यात् । एतदुक्तं भवति-यद्यपि
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy