________________
286
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
भावप्रकाशः भिश्च तादृशान्येव तद्विपरीतानि विरुध्यन्ते । सामान्यानि तु असमुदाचरpपाण्यतिशयैस्समुदाचरद्भिस्सहाविरोधात्प्रवर्तन्ते इति । ननु गृह्णीम एतत् ; तथाऽपि विषयसुखस्य कुतस्स्वाभाविकी दुःखता ? इत्यत आह-एवमेत इति । उपादानाभेदादुपादानात्मकत्वाच्चोपादेयस्याप्यभेद इत्यर्थः । तत्किमिदानीमात्यन्तिकमेव तादात्म्यम् ? तथाच बुद्धिव्यपदेशभेदौ न कल्प्येते इत्यत आह-गुणप्रधानति । सामान्यात्मना गुणभावोऽतिशयात्मना च प्राधान्यम् । तस्मादुपाधितः स्वभावतश्च दुःखमेव सर्वं विवेकिन इति ॥
सर्वस्य सर्वात्मकत्वेऽपि विशेषः प्रकृतसूत्रानन्तर ३-१४ सूत्रभाष्ये प्रकटीकृतः। सर्वं सर्वात्मकमिति प्रक्रम्य 'देशकालाकारनिमित्तापबन्धान्न खलु समानकालमात्मनामभिव्यक्तिरिति ' इति । तत्र तत्ववैशारदी'यद्यपि कारणं सर्व सर्वात्मकम् ; तथाऽपि यो यस्य कार्यस्य देशः; यथा कुङ्कुमस्य काश्मीरः; तेषां सत्त्वेऽपि पञ्चालादिषु न समुदाचारः इति न कुङ्कुमस्य पञ्चालादिष्वभिव्यक्तिः । एवं निदाघे न प्रावृषस्समुदाचार इति । तस्मात् देशकालाकारनिमित्तानां अपबन्धात्-अपगमात् न समानकालमात्मनां--- भावानां अभिव्यक्तिरिति' इति । एवं 'क्रमान्यत्वं परिणामान्यत्वे हेतुः; इति तदुत्तरसूत्रभाष्यादिकं च । प्रकृतसूत्रे भाष्यम्-' अवस्थापरिणामे कौटस्थ्यदोषप्रसङ्गः कैश्चिदुक्तः । कथम् ? अध्वनो व्यापारेण व्यवहितत्वात् । यदा धर्मः स्वव्यापारं न करोति तदाऽनागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवृत्तः तदा अतीत इत्येवं धर्मधर्मिणोर्लक्षणानामवस्थानां च कौटस्थ्यं प्रामोतीति परैर्दोष उच्यते ; नासौ दोषः; कस्मात् ? गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्रयात् । यथा संस्थानमादिमत् धर्ममात्र शब्दादनिां विनाश्य