________________
सरःj ommmm
सांख्ययोगयोः सर्वनित्यत्वाभिप्रायकत्वप्रदर्शनम्
285
भावप्रकाशः तु लक्षणानामेकतमस्य स्वव्यञ्जकाञ्जनस्य भावो भवेत् --- संभवेत् । लक्ष्याधीननिरूपणतया लक्षणानां लक्ष्याकारेण तद्वत्ता । अत्रैव पञ्चशिखाचार्यसंमतिमाह-उक्तंचेति । एतच्च प्रागेव व्याख्यातम् । उपसंहरति—तस्मादिति । आविर्भावतिरोभावरूपविरुद्धधर्भसंसर्गादसंकरोऽध्वनामिति' इति । अत्रोदाहृतं पञ्चशिखाचार्यवाक्यं 'परिणामतापसंस्कारदुःखगुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः' २-१५ इति सूत्रभाष्येऽप्युदाहृतम् । तथाच तद्भाष्यम्-' प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्रा भूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणमेवारभन्ते । चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम् । रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते सामान्यानि त्वतिशयैस्सह प्रवर्तन्ते । एवमेते गुणा इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्यया इति सर्वे सर्वरूपा भवन्ति । गुणप्रधानभावकृतस्त्वेषां विशेष इति' इति । तत्र तत्ववैशारदी-- 'तदेवमौपाधिकं विषयसुखस्य परिणामतस्संस्कारतस्तापसंयोगाच दुःखत्वमभिधाय स्वाभाविकमादर्शयति-गुणवृत्तिविरोधाच्चेति । व्याचष्टेप्रख्येति । प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिरूपेण परिणता गुणाः । सत्वरजस्तमांसि परस्परानुग्रहतन्त्राः शान्तं-सुखात्मकं घोरं-दुःखात्मकं मूढंविषादात्मकमेव प्रत्ययं सुखोपभोगरूपमपि त्रिगुणमारभन्ते । न च सोऽपि तादृशप्रत्ययरूपोऽस्य परिणामः स्थिर इत्याह-चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तं इति । नन्वेकः प्रत्ययः । कथं परस्परविरुद्धशान्तघोरमूढत्वान्येकदा प्रतिपद्यते ? इत्यत आहरूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते इति । रूपाणि अष्टौ भावा धर्मादयः । वृत्तयः-सुखाद्याः । तदिह धर्मेण विपच्यमानेनाधर्मस्तादृशो विरुध्यते । एवं ज्ञानवैराग्यैश्वर्यैः . सुखाड़ि-.