________________
सरः]
ग्रसनोद्गसनासम्भवः व्यक्तावपि क्षोभतोल्यं स्वमते अदोषता च
295
तत्वमुक्ताकलापे तस्मिन् सत्येव तस्माज्जनिरपि नियता
सर्वार्थसिद्धिः
सार्वज्ञप्रागभावात्मा तिरोधिरपि कर्मिणाम् । संविद्विकाससंकोचप्रवाहानातिरिच्यते । तत्तत्कर्मप्रवाहेण तयोरेवं व्यवस्थितेः। न हि स्वरूपतोऽनादेर्हेतुरस्माभिरिष्यते ॥
यत्तु - कारकशक्तिर्नाम तद्गतं सूक्ष्मं कार्यमिति कल्प्यते; तत्प्रतिवन्द्या प्रतिरुणद्धि-तस्मिन्निति । तस्मादित्यत्रापि स्वोचितादिति विशेषणीयम् । यथा सर्वेषु द्रव्येषु तिला एव तैलगास्स्वकारणशक्तया सृज्यन्ते तथा तत्तत्कार्यनियतपूर्वभावितया तत्तदुत्पादकस्वभावास्तेते भावास्तथैवेति स्वीकायम् । अन्यथा दृष्टहानमदृष्टकल्पनं च । प्रतिबन्धन्तरााण
___आनन्ददायिनी मसाध्यता न विरुद्धेत्याह-सार्वज्ञेति । कर्मिणां-जीवानां । मूल एव 'शक्तस्य शक्यकरणात्' इत्युक्तहेतुं विशिष्य दूषयतीत्याहयत्त्विति । प्रतिबन्दिमेवोपपादयति-यथेति । तिलकारणपरम्पराया एव तैलादिरूपशक्तिमत्त्वं न तु सिकतातत्परम्पराया इत्यत्र किं निदानम् ? इति शङ्कायां तथा दर्शनादिति व्यवस्थापनीयं; तथा मृदादीनामेवान्वयव्यतिरेकदर्शनात् घटादिजनकत्वं नान्येषामिति वक्तुं शक्यत्वादित्यर्थः । दृष्टहानं-दृष्टयोरन्वयव्यतिरेकयोहानम् । अदृष्टस्य