________________
सरः]
सत्कार्यवादद्वितीयहेतुनिरासे सांख्यवृद्धगाधादूषणम्
279
सर्वार्थसिद्धिः 1* अत्र कार्यमप्राप्तैरित्युपस्कार्यम् । एतेन
असत्त्वान्नास्ति सम्बन्धः कारकैस्सत्त्वसनिभिः ।
असम्बन्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः॥ इति साङ्ख्यवृद्धगाधाऽपि प्रत्युक्ता। इह तु स्वोचितात्कारकचक्रात्तत्सम्बन्धतश्च कार्यदृष्टेरित्यव्यवस्थामूलघातः । एतेन
आनन्ददायिनी उपस्कार्य-अध्याहार्यम् । एतेनेत्यस्यार्थमाह-इह विति। एतेनेति--पूर्व कालपक्षकानुमानस्य परपक्षानुसारेण दूषणमुक्तम् । इदानी प्रत्यक्षादिभि
भावप्रकाशः कार्यबोधकं चान्यन्न किञ्चिदपि पदमस्ति । उत्तरसूत्रे च अभिचारादिति हेतुविशेषसमर्पकं पदं पीडनपदं च तत्सम्बन्धिकार्यविशेषार्थकम् । घटादिपदमपि कार्यविशेषवाचि । अत एव वार्तिके कारकज्ञापकोभयसाधारण्योक्तिः; 'असत्साध्यते' इत्यादितात्पर्यटीकोक्तिश्च स्वरसतस्संगच्छते । प्राप्तयप्राप्तिसमयोरेकोत्तरत्वं च तत्रैवोक्तम् । अतः पूर्वसूत्रात् साध्यमप्राप्य हेतोः इति त्रयमनुवर्तते । हेतोरिति पञ्चमी । जातावेकवचनम् । हेतोस्साध्यमप्राप्य घटादिनिष्पत्तिदर्शनादप्रतिषेध इत्येकोऽर्थः । घटादेहेंतोश्च परस्परोपश्लेषसम्भावनां प्रत्यक्षबाधेन विफलयितुं निष्पत्तिदर्शनात् ' इति । यत्र च सा सम्भावना नास्ति तदभिप्रायेण पीडने चेत्यादि । हेतोरभिचारात् साध्यमप्राप्य पीडने चाप्रतिषेध इति तदर्थ इत्यभिप्रेत्य पर्यवसितमाह-'* अत्र कार्यमप्राप्तैरित्युपस्कार्यामति । एतेन पूर्वसूत्रे विश्वनाथेन वृत्तौ कार्यप्राप्तयप्राप्तिपरतया विवरणमपि संगच्छते इति बोध्यम् । न्यायभाष्यादिकमक्षपादहृदयाननुसारीति बुद्धिसरे (५६) वक्ष्यते ॥