SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ 278 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य भावप्रकाशः विवक्षित्वा बहुवचनप्रयोगो वृक्षा इति; तद्बहुत्वसंख्याया एकत्वं विवक्षित्वा एकवचनं एकं वनमिति' इति । अस्मिन् सूत्रे च'मृत्पिण्डप्राप्तानां दण्डादीनां नाविशेषो न च साध्यसाधनभावनिवृत्तिः ; न हि मृत्पिण्डप्राप्तो दण्डः साधनत्वं जहाति! नापीतरत् साध्यत्वं जहाति ! अथ मन्यसे! घटस्तत्र साध्यः ; तस्यचाविद्यमानस्य किं साधनेन ? नाविद्यमानस्य साधनम् ; अपितु मृत्पिण्डो घटीक्रियते । किमिदं घटाक्रियत इति ? मृदवयवाः पूर्वव्यूहपरित्यागेन व्यूहान्तरमापद्यन्ते व्यूहान्तराच्च घटोत्पत्तिः । पीडने चाभिचारादप्राप्तयापि साधकत्वं दृष्टम् । कोप्राप्तयर्थः ? परस्परोप श्लेषमन्तरेण साधकत्वम् । अन्यथा तूद्देशेनायं प्राप्त एव नियमात् । इयं च जातिः सर्वहेत्वपवादद्वारिका । यदि ज्ञापको हेतुरपदिश्यते तथाऽपि । यदि कारकस्तथाऽपीति' इति न्यायवार्तिकम् । अत्र तात्पर्यटीका-सूत्रं तद्व्याचष्टेमृत्पिण्डप्राप्तानां दुमदीनां न गङ्गासागरवदंविशेषः । मृदवयवाः पूर्वव्यूहपरित्यागनेति । साध्यं-कर्म । तच्च मृदवयवाः ते च सिद्धा एवेत्यभिचारः । घटस्तु फलं न साध्य इति भावः । उत्तरं परस्परोपश्लेषमन्तरेण साधकत्वमिति । अन्यथा तूद्देशेनासौ प्राप्त एव ; यदुद्देशेनाभिचारः श्येनादिना क्रियते तस्यैव प्रत्यवायो भवति नान्यस्येति नियमः ; अत्रापि संयुक्तसंयोगादिः सम्बन्ध उपेयः । तस्यापि हेतुत्वं क्रियां प्रति दृष्टम् । यथा पकाख्यायां. भुवि' इति । अत्र यद्यपि 'अनयोरुत्तरं' इत्युत्तरसूत्रावतरणे ; 'उभयथा. खल्वयुक्तः प्रतिषेधः' इत्युत्तरसूत्रे च न्यायभाष्यवाक्यमनुरुध्य पूर्वसूत्रात् 'प्राप्य साध्यम्' इति भागस्य आप्राप्तयाऽसाधकत्वादित्यत्र नयतिरिक्तांशस्य चानुवृत्तिमाश्रित्य मृदवयवानां साध्यत्वमुपपाद्य उत्तरसूत्रार्थो वर्णितः ; तथाऽपि पूर्वसूत्रे हेतुसाध्यपदे परस्परसम्बन्धयर्थद्वये. स्वरसे;
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy