________________
[ जडद्रव्य
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
विमतं पूर्वापरकालयोरपि सत् प्रमेयत्वात् सत्त्वाद्वा आत्मवत् । विगीतः काल एतटादिमान् कालत्वात् एतत्कालवदित्यादिर्निरस्तः; सर्वलोकप्रत्यक्षादिबाधात् ।
* कारकव्यञ्जकानां च व्यवहारव्यवस्थितिः । ** किन्निमित्तेति वक्तव्यं * सर्वनित्यत्ववादिना ॥ आनन्ददायिनी
बीधोऽपीति वक्तुं (कार्यप्राप्तकारणानामेवोत्पादकत्वमिति सत्त्वसाधकरूपस्य निरस्तत्वात् प्रत्यक्षादिभिर्बाधोऽपि सिद्ध इति विशेष इति दूषितस्यापि) पुनरनुवादः । अन्यथा आदिशब्दा क्तानुमानादीनां तुल्यतया प्रतिपक्षत्वप्रसङ्ग इति ध्येयम् । व्यञ्जकत्वमेवोत्पादकत्वं तदतिरेकेणोत्पादकत्वाभावात् । तत्र सिद्धत्वमनुकूलमेव । न च कारकव्यञ्जक व्यवस्थिती न स्यातामिति वाच्यम् ; तारतम्यमादाय व्यवस्थासंभवात् । तथाच पूर्वोक्ता दोषा इत्याह-कारकव्यञ्जकानां चेति ।
280
भावप्रकाशः
* कारकव्यञ्जकानां च व्यवहारव्यवस्थितिः ।
इत्यत्र व्यवहारव्यवास्थतिरित्यनेन 'न व्यवस्थानुपपत्तेः, इत्यक्षपादसूत्रस्थव्यवहारशब्दार्थ उक्तः । तेन वाचस्पतिना स्वायम्भुवमतमात्रापाकरणपरतया योजितमपि तत्सूत्रं कापिलस्वायम्भुवमतद्वयनिरसन एव स्वरसमिति बोधितम् ।
... 2 * किन्निमित्तेति —— पातञ्जलभाष्ये
उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः । -वियोगान्यत्वष्टतयः कारणं नवधा स्मृतम् ॥
इत्युक्तया कारकव्यञ्जकभेदस्य पूर्वपक्षिणाऽपि व्यवस्थापनीयत्वादिति भावः । * सर्वनित्यत्ववादिनेति नात्र निरन्वयविनाशाप्रत्तियोगित्वरूपं