________________
270
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः चेह तथा! * आगन्तुकाभावे च पुरुषवत् प्रकृतिरपि ते निर्व्यापारैव स्यात् । तथा च गतं सृष्टिप्रलयादिवादैः सिद्धान्तसृष्टयादिभिश्च! किंच सत्कार्यमिति कार्यस्य सत्त्वमात्रे साध्ये सिद्धसाध्यता'* कारकव्यापारात्प्रागपि सदिति साध्ये कार्यस्य कारकव्यापारस्य प्रागसत्त्वमङ्गीकृतं स्यात् । असदकरणात् शक्तस्य शक्यकरणादिति हेत्वोश्च करणशब्देनापूर्वोत्पादने विवक्षिते स्ववचनव्याघातः । व्यक्तिविवक्षायां तु व्यज्यमानत्वात्प्रागपि सदिति स्यात् । तदा अन्यतरासिद्धो हेतुः। ननु
आनन्ददायिनी दोषमाह-आगन्तुकाभाव इति । व्यापारस्यागन्तुकस्याभावादित्यर्थः । तस्यापि पूर्वसत्त्वाङ्गीकारे सृष्टिप्रलयादिकं युगपत्स्या (सर्वदा स्या) दिति भावः-सिद्धान्तसृष्टयादिभिश्चेति । सिद्धान्तकल्पनयेत्यर्थः । यद्वा त्वसिद्धान्तसृष्टयादिक्रमादिभिश्चेत्यर्थः—कारकव्यापारात्प्रागिति । प्राक्त(प्राक्सत्त्व) स्य तदभावघटितत्वादिति भावः-अपूर्वोत्पादने इति । उत्पादनस्योत्पत्तेः पूर्वमविद्यमानस्य विवक्षितत्वे इत्यर्थः । व्यक्तिविवक्षायामिति । अभिव्यक्तिविवक्षायामित्यर्थः । विपर्ययमुखेन पर्यवसितं हेतुमाह-व्यज्यमानत्वादिति । हेत्विति-व्याप्तं लिङ्गमित्यर्थः ।
भावप्रकाशः * आगन्तुकाभावे इति । 'सत्कार्य ; कारणव्यापारात्प्रागपीति शेषः । तथा च न सिद्धसाधनं नैयायिकतनयैरुद्भावनीयम्' इति वाचस्पतिव्याख्यानं दूषयति * कारकव्यापारात्प्रागपीत्यादि ॥