________________
सर:] सत्कार्यवादनिरासे कारकव्यञ्जकस्वरूपभेदः कार्यस्य व्यङ्ग्यत्वे दोषश्च 269
सर्वार्थसिद्धिः पुनरपि दण्डादिव्यापारनिष्पाद्यत्वमस्ति! 1* किंच कार्यव्यङ्ग्यशब्दौ च व्यवस्थितविषयौ लोके दृष्टौ कारकव्यञ्जकभेदश्च । कारकं समग्रमप्येकमुत्पादयति; व्यञ्जकं तु सहकारिसंपन्नं समानेन्द्रियग्राह्याणि समानदेशस्थानि तादृशानि सर्वाण्यपि व्यनक्ति। तदत्र घटादिव्यक्तिसामग्रथैव तद्वन्मृत्पिण्डगतानां करकादीनामपि व्यक्तिस्स्यात् । व्यञ्जकत्वे सिद्धे अवान्तरव्यङ्ग्यभेदप्रतिनियतव्यञ्जकभेदव्यवस्थाक्लप्तिः! न
आनन्ददायिनी व्यापारस्य वैयर्थ्य; तेषां व्यञ्जकत्वादित्यत्राह-किञ्चेति। कारकव्यञ्जकयोर्व्यापारभेदादपि नैक्यमित्याह-कारकं समग्रमिति । व्यञ्जकं त्वितिएकस्य दीपस्य युगपद्धटपटादिव्यञ्जकत्वदर्शनादिति भावः । कारकस्य व्यञ्जकत्वमेव यदि तदा बाधकमप्याह—तदत्रेति । न च मृत्पिण्डे करकाद्यभावः ; क्रमेणोत्पद्यमानानां दर्शनादिति भावः । ननु व्यञ्जकानां खभावभेदः कल्प्यते ; केषांचिद्युगपदनेकव्यञ्जकत्वं कषांचित् किञ्चिज्जातीयव्यञ्जकत्वं ; तथा च नोक्तदोष इत्यत आहव्यञ्जकत्वे सिद्धे इति । ननु आगन्तुकं नास्ति; सर्वं पूर्वमेव सत् ; तथाच तदनुरोधाद्धटादिकारणानां दण्डादीनां व्यञ्जकत्वमङ्गीकरणीयमित्याशङ्कय प्रत्यक्षादिभिरागन्तवस्सन्त्येवेत्यभ्युपगन्तव्यम् ; अन्यथा
भावप्रकाश 1* किंचेत्यादिना । धर्मधर्मिणोरभेदेनावस्थानां प्राक्सत्ता न सिध्यतीत्याह