________________
सरः]
सत्कार्यवादहेतुनिरासे प्रतिज्ञाहेतुदूषणानि
271
सर्वार्थसिद्धिः सतोऽभिव्यक्तौ घटतैलतण्डुलादि निदर्शनमस्ति असत उत्पत्तौ न किश्चित् ! इति चेत् ; किमतः? नहि निदर्शनमेव प्रमाणम् ! हेतुनैष्फल्यप्रसङ्गात् । न च निदर्शनाभावो बाधकः! सर्वत्र प्रतिनियतस्वभावलोपप्रसङ्गात् । अपि च असदकरणादित्यत्र कार्यस्य प्राक्सत्व क्रियमाणत्वादित्येव हेतुस्स्यात् । तथा च 1* प्रतिज्ञाहेतुविरोधः । विपक्षात् स्वपुष्पादेः सपक्षाच्च सर्वस्मात् व्यावृत्तत्वेन हेतोरसाधारणत्वप्रसङ्गश्च । भावत्वेन तु प्राक्सत्त्वं साधयाम इति चेत् तदाऽपि प्रत्यक्षविरोधः । अन्यथा नित्यासतोऽपि * कुतश्चिन्नित्यसत्त्वसाधने निवारकाभावात् । असतस्सत्त्वापादनमशक्यमित्युक्तमिति चेन्न; अत्यन्तासत्त्वे विवक्षिते कार्येषु तदभावात् । प्रागसत्त्वे तु सृष्टयनुगुणस्यैव तद्विरुद्धत्वोपन्यासात् ।।
आनन्ददायिनी सर्वत्रेति । तेजस उष्णस्पर्शः पृथिव्या गन्ध इत्यादिलोपप्रसङ्गादित्यर्थः । अपूर्वोत्पादनविवक्षायां विरुद्धत्वमपीत्याह-अपिचेति । सपक्षाच्चेतिनित्यत्वेनाभ्युपगतादात्मादेरित्यर्थः-अन्यथेति । शशशृङ्गादेरप्युत्पत्त्यभावादिना नित्यसत्त्वसाधनप्रसङ्गादित्यर्थः--प्रागसत्त्वे विति । तस्यो. त्पत्तियोग्यतावच्छेदकत्वात् उत्पत्तेश्च आद्यसमयसंबन्धरूपायाः प्रागसत्त्वस्यानुकूलत्वात् तस्य तद्विरुद्धत्वोपन्यासो व्याहत इत्यर्थः ।
भावप्रकाशः * प्रतिज्ञाहेतुविरोध इति-प्राक्सतस्सिद्धस्य कृतिसाध्यत्वासंभवादिति भावः। *कुताश्चत्-विषयत्वादिना । समानतन्त्रे 'शब्दज्ञानानुपाती वस्तु'शूयने विकल्पः' इति असतोऽपि वृत्तिविषयत्वव्यवस्थापनादिति भावः।