________________
सरः]
त्रिगुणपरीक्षायां सांख्योक्तसत्कार्यवादहेतवः
259
तत्वमुक्ताकलापः सन्ति प्रागप्यवस्थाः सदितर (जनना) कर
सर्वार्थसिद्धिः ईदृशसत्कार्यवादमसहमानस्य साङ्ख्यस्य नित्यैकान्तवादनियतान् प्रयोगानन्वाह–सन्तीति । द्रव्यपक्षीकारे अस्मान् प्रति सिद्धसाध्यता; अतोऽवस्था इत्युक्तम् । यदाहुः साङ्ख्याः
असदकरणात् उपादानग्रहणात् सर्वसंभवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ इति । तत्रायं सदितरकरणादृष्टेरि'*त्येको हेतुः । अप्राप्तनिष्पत्त्यदृष्टेरिति द्वितीयः। सदितरशब्देन प्रागसत्त्वमिह विवक्षितम् ।
आनन्ददायिनी आक्षेपिकी संगतिरित्यभिप्रायेणाह-असहमानस्यति । नित्यैकान्तवादित्वात्तस्य देहादेः पञ्चभूतोपादा नकत्वायोगादित्यर्थः । एकान्तता चैकरूपता । तथाच सर्ववस्तूनामेकरूपत्वान्नागन्तुकावस्थाऽपीति भावः । असदकरणादिति । कार्य-कर्यत्वेनाभिमतं घटपटाद्यात्मकमिति पक्षः । सदिति साध्यम् ; सर्वदा सदित्यर्थः । एवमपरमपि द्रष्टव्यम् । उपादानग्रहणादित्यस्य उपादानेन संबन्धात्कार्यस्येत्यर्थः । कार्य सत् उपादानेन संबद्धत्वात् इति द्वितीयः । तमपि व्यातिरकव्याप्तिप्रदर्शनमुखेन व्याख्याति-अप्राप्तनिष्पत्त्य(सिद्धेः)दृष्टेरिति । तथा च
भावप्रकाशः '* एको हेतुरिति-अत्राह वंशीधरः-हेतुपदस्य व्यतिरेकव्याप्ति
17*
.