SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ 258 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः समष्टिव्यष्टिनीत्यैव त्रिगुणे वदति श्रुतिः । ईदृक् सत्कार्यवादश्च वैदिकैः परिगृह्यते । द्रव्यस्य पूर्वसिद्धस्य साध्यावस्थाविशेषतः । ननु यदि पूर्वं नित्यं सद्दव्यम्! तत्कथं साङ्ख्यपक्षमुज्झतः कार्य स्यात् ? या त्वागन्तुक्यवस्था सा न प्राक्सती ; अतः कथं सत्कार्यवादं ब्रूथ ? इत्थम् ! प्राक्सदेव द्रव्यमवस्थान्तरविशिष्टवेषेण कार्यम् । तथैव लोकवेदव्यवहारस्थितिरिति ॥२३ इति त्रिगुणपरीक्षायां देहादेः पाञ्चभौतिकत्वं सहव्यवादनिगमनं च. आनन्ददायिनी प्रकृतिविशेषणं बहुत्वमित्याहुः । ननु आगन्त्ववस्थायोगित्वमेव कार्यत्वं द्रव्यस्य ; न त्वसत उत्पत्तिः ; अत एव शरीरस्यापि पाञ्चभौतिकत्वमिति इयता प्रतिपन्नम् ; तदयुक्तम् ; ईदृशसत्कार्यवादस्य साङ्खौरनङ्गीकारे सत्कार्यवादत्वाभावात् इत्यत आह—ईक्सत्कार्यवादश्चेति । ननु अगन्तुक्योऽवस्थाः; तथाऽपि तद्वत्त्वेन सत्कार्यपक्षो नोपपद्यते इत्याशङ्कते- . नन्विति । साङ्ख्यमतमुज्झत इति—अभिव्यक्तिपक्षमनभ्युपगच्छत इत्यर्थः ॥ २३ ॥ ... इति त्रिगुणपरीक्षायां देहादेः पाञ्चभौतिकत्वं सव्यवादनिगमनं च.
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy