________________
260
संव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्गव्य
सर्वार्थसिद्धिः न ह्यसत् खपुष्पादि क्रियेत ! माभून्नित्यासतः करणम् ! अत्र प्रागसत्त्वमानं विवक्षितमिति चेन्न; तद्वदेव कदाचिदसतस्सर्वदैवासत्त्वापातात् । न चासतः कदाचित् सत्त्वापत्तिः; विरोधात् । *न हि चिच्छक्तेः कदाचिदपि जडत्वं जडस्य वा चित्त्वम् ;
आनन्ददायिनी मूलेऽपि सदितरजननाप्राप्तनिप्पत्त्ययोगात् इति व्यतिरेकव्याप्तिप्रदर्शनमुखेन उक्तहेतुद्वयमभिप्रेतम् ; अन्यथा वैयधिकरण्यप्रसङ्गात् । कारणभावात्-काणात्मकत्वादिति तृतीयो हेतुः । सर्वसंभवाभावात् शक्तस्य शक्यकरणात् इति आद्यद्वयस्यानुग्राहकम् । तथाच प्रथममुक्तं तर्कतद्धेतुद्वयं दूषयितुं हेतुद्वयं व्याख्यातामति द्रष्टव्यम् । व्यतिरेकव्याप्तौ नित्यासत्त्वं साधनावच्छिन्नसाध्यव्यापकमुपाधिरिति शङ्कतेमाभूदिति । साध्यस्यासत्त्वमात्रस्य अनुकूलतर्कबलाव्याप्तिग्रहे साधनाव्यापकता नास्तीत्याह-नेति । साधनाव्यापकत्वभङ्गमेवोपपादयतिनचासत इति । कालभेदेनाऽप्यविरोधासंभवादित्यर्थः । ननु एकस्यानेक
भावप्रकाशः परत्वेन तत्साधकत्वात् ; तथा हि-विमतं कालत्रये सत् जन्यत्वादित्यदि। अत्र तत्वकौमुद्यां 'असञ्चेत्कारणव्यापारात्पूर्व कार्य नास्य सत्त्वं केनापि कर्तुं शक्यम् । न हि नीलं शिल्पिसहस्रणाऽपि पतिं कर्तुं शक्यम्' इत्युक्तम् । तत्र नीलवस्त्रादेः क्षारादिना नीलरूपपरावृच्या हरिद्रादिना पीततासंभवमालोच्य तत्वकौमुदीवाक्यस्य अन्यस्यान्यथाभावानुपपत्तौ तात्पर्यमाकलय्य दृष्टान्तान्तरमाह नहि चिच्छक्तरित्यादिना.। एतेन साङ्यमते धर्मधामणोर्मेदो नाङ्गीक्रियते इति तत्वकौमुदीविभाक